कृपा ममैत इतिव्यामोहनिमित्तः स्नेहविशेषः । तयाऽऽविष्टं स्वभावसिद्धया
व्याप्तम् । अर्जुनस्य कर्मत्वं कृपायाश्च कर्तुत्वं वदता तस्या आगन्तुकत्वं व्युदस्तम् ।
अत एव विषीदन्तं स्नेहविषयीभूतस्वजनविच्छेदाशङ्कानिमित्तः शोकापरपर्यायश्चित्तव्याकुलीभावो विषादस्तं प्राप्नुवन्तम् । अत्र विषादस्य कर्मत्वेनार्जुनस्य कर्तृत्वेन च
तस्याऽऽगन्तुकत्वं सूचितम् । अत एव कृपाविषादवशादश्रुभिः पूर्णे आकुले दर्शनाक्षसे
चेक्षण यस्य तम् । एवमश्रुपातव्याकुलीभावाख्यकार्यद्वयजनकतया परिपोषं गताभ्यां
कृपाविषादाभ्यामुद्विग्नं तमर्जुनमिदं सोपपत्तिकं वक्ष्यमाणं वाक्यमुवाच ने तुपेक्षितवान् ।
मधुसूदन इति । स्वयं दुष्टनिग्रहकर्ताऽर्जुनं प्रत्याप तथैव वक्ष्यतीति भावः ॥ १ ॥
श्री० टी०-- ततः किं वृत्तमित्यपेक्षायाम्-ते तथेति । अश्रुभिः पूर्णे आकुले इक्षणे यस्य तम् । तथोक्तप्रकारेण विषीदन्तं तमर्जुनं प्रति मधुसूदन इदं वाक्यमुयाच ॥ १ ॥
म० टी०---तदेव भगवतो वाक्यमवतारयति--
श्रीभगवानुवाच--- |
समग्रस्येति प्रत्येक संबन्धः । मोक्षस्येति तत्साधनस्य ज्ञानस्य । इङ्गना संज्ञा । एतादृशं समग्रमैश्वर्यादिकं नित्यमप्रतिबन्धेन यत्र वर्तते स भगवान् । नित्ययोंगे मतुप् ।
तथा---- |
[१]अत्र भूतानामिति प्रत्येक संबध्यते । उत्पत्तिविनाशशब्दौ तत्कारणस्याप्युपलक्षकौ । गतिगती आगामिन्यौ संपदापदौ । एतादृशो भगवच्छब्दार्थः श्रीवासुदेव एव पर्यवसित इति तथोच्यते ॥
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ॥ |
इदं स्वधर्मात्पराङ्मुखत्वं कृपाव्यामोहाश्रुपातादिपुरःसरे कश्मलं शिष्टगर्हितत्वेन मलिनं विषमे समये स्थाने त्वा त्वां सर्वक्षत्रियप्रवरं कुतो हेतोः समुपस्थितं प्राप्तम् । कि मोक्षेच्छातः, किं वा स्वच्छातः, अथवा कीर्तच्छात इति किंशब्देनाऽऽक्षिप्यते । हेतुत्रयमपि निषेधति त्रिभिर्विशेषणैरुत्तरार्धेन । आर्यैर्मुमुक्षुभिर्न जुष्टमसेवितं स्वधर्मैराश-
- ↑ क. घ, छ. के. तत्र ।