पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६६
[अ०८क्ष्लो०८-९]
'मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


तेषामन्त्यभावनासापेक्षत्वात् । निर्गुणब्रह्मज्ञानिनां तु ज्ञानसमकालमेवाज्ञाननिवृत्तिलक्षणाया मुक्तेः सिद्धत्वान्नास्त्यन्त्यभावनापेक्षेति द्रष्टव्यम् ॥ ७ ॥

 श्री० टी०-यस्मात्पूर्ववासनैवान्तकाले स्मृतिहेतुर्न तु तदा विवशस्य स्मरणोद्यमः संभवति - तस्मादिति । तस्मात्सर्वदा मामनुस्मर[१] चिन्तय । सततं स्मरणं च चित्तशुद्धिं विना न भ[२]वति । अतो युध्य च युध्यस्व चित्तशुद्धयर्थं युद्धादिकं स्वधर्म चानुतिष्ठेत्यर्थः । एवं मय्यर्पितं मनः संकल्पात्मकं बुद्धिश्च व्यवसायात्मिका येन त्वया स त्वं मामेव प्राप्स्यसि असंशयः संशयोऽत्र नास्ति ॥ ७ ॥

 म०टी०-तदेवं सप्तानामपि प्रश्नानामुत्तरमुक्त्वा प्रयाणकाले भगवदनुस्मरणस्य भगवत्प्राप्तिलक्षणं फलं विवरीतुमारमते----

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ॥
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८॥

 अभ्यासः सजातीयप्रत्ययप्रवाहो मयि विजातीयप्रत्ययानन्तरितः षष्ठे प्राग्व्याख्यातः । स एव योगः समाधिस्तेन युक्तं तत्रैव व्याप्तमात्माकारवृत्तीतरवृत्तिशून्यं यच्चेतस्तेन चेतसाऽभ्यासपाटवेन नान्यगामिना नान्यत्र विषयान्तरे निरोधप्रयत्न विनाऽपि गन्तुं शीलमस्येति तेन परमं निरतिशयं पुरुषं पूर्णं दिव्यं दिवि द्योतनात्मन्यादित्ये भवं “ यश्वासावादित्ये" इति श्रुतेः । याति गच्छति हे पार्थ । अनुचिन्तयन् , शास्त्राचार्योपदेशमनुध्यायन् ॥ ८॥

 श्री०टी०--संततस्मरणस्य चाभ्यासोऽन्तरङ्गं साधनमिति दर्शयन्नाह-अभ्यासेति । अभ्यासः सजातीयप्रत्ययप्रवाहः । स एव योग उपायस्तेन युक्तेनैकाग्रेण । अत एव नान्यं विषयं गन्तुं शीलं यस्य तेन चेतसा दिव्यं द्योतनात्मकं परमं पुरुषं परमेश्वरमनुचिन्तयन्हे पार्थ तमेव याति ॥ ८॥

 म०टी०-पुनरपि तमेवानुचिन्तयितव्यं गन्तव्यं च पुरुषं विशिनष्टि---

कविं पुराणमनुशासितार-
 मणोरणीयांसमनुस्मरेद्यः॥
सर्वस्य धातारमचिन्त्यरूप-
 मादित्यवर्णं तमसः परस्तात् ॥ ९॥

 कविं क्रान्तदर्शिनं तेनातीतानागताद्यशेषवस्तुदर्शित्वेन सर्वज्ञं, पुराणं चिरंतनं सर्वकारणत्वादनादिमिति यावत् । अनुशासितारं सर्वस्य जगतो नियन्तारमणोरणीयांसं


  1. क. छ. 'स्मरानुचि ।
  2. ख. संभवति ।