पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०८क्ष्लो०६-७]
२६५
श्रीमद्भगवद्गीता।

 म०. टी०--अन्तकाले भगवन्तमनुध्यायतो भगवत्प्राप्तिर्नियतेति वदितुमन्य[१]दपि[२] यत्किचित्तकाले ध्यायतो देहं त्यजतस्तत्प्राप्तिरवश्यंभाविनीति दर्शयति-

यं यं [३]चापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ॥
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥६॥

 न केवलं मां स्मरन्मद्भावं यातीति नियमः किं तर्हि यं यं चापि भावं देवताविशेषं, चकारादन्यदपि यत्किंचिद्वा स्मरंश्चिन्तयन्नन्ते प्राणवियोगकाले कलेवरं त्यजति [४]स तं तमेव स्मर्यमाणं भावमेव नान्यमेति प्राप्नोति । हे कौन्तेयेति पितृष्वसपुत्रत्वेन स्नेहातिशयं सूचयति । तेन चावश्यानुग्राह्यत्वं तेन च प्रतारणाशङ्काशून्यत्वमिति । अन्तकाले स्मरणोद्यमासंभवेऽपि पूर्वाभ्यासजनिता वासनैव स्मृतिहेतुरित्याह-सदा सर्वदा तस्मिन्देवताविशेषादौ भावो भावना वासना तद्भावः स भावितः संपादितो येन स तथा भाविततद्भाव इत्यर्थः । आहिताग्न्यादेराकृतिगणवाद्भावितपदस्य परनिपातः । तद्भावेन तच्चिन्तनेन भावितो वासितचित्त इति वा ॥ ६ ॥

 श्री०टी० -न केवलं मां स्मरन्मद्भावं प्राप्नोतीति नियमः किं तर्हि-यं यमिति | यं यं भावं देवतान्तरं वाऽन्यमपि वाऽन्तकाले स्मरन्देहं त्यजति तं तमेक स्मर्यमाणं भावं प्राप्नोति । अन्तकाले भावविशेषस्मरणे हेतुः---सर्वदा तस्य भावो भावनाऽनुचिन्तनं तेन भावितो वासितचित्तः ॥ ६ ॥

 म० टी०-यस्मादे[५]वं पूर्वस्मरणाभ्यासजनिताऽन्त्या भावनैव तदानीं परवशस्थ देहान्तरप्राप्तौ कारणम्-

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ॥
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ ७ ॥

 तस्मान्मद्विषयकान्त्यभावनोत्पत्त्यर्थं सर्वेषु कालेषु पूर्वमेवाऽऽदरेण मां सगुणमीश्वरमनुस्मर चिन्तय । यद्यन्तःकरणाशुद्धिवशान्न शक्नोषि सततमनुस्मर्तुं ततोऽन्तःकरणशुद्धये युध्य च, अन्तःकरणशुद्ध्यर्थं युद्धादिकं स्वधर्मं कुरु । युध्येति युध्यस्वेत्यर्थः । एवं च नित्यनैमित्तिककर्मानुष्ठानेनाशुद्धिक्षयान्मयि भगवति वासुदेवेऽर्पिते संकल्पाध्यवसायलक्षणे मनोबुद्धी येन त्वया स त्वमीदृशः सर्वदा मच्चिन्तनपरः सन्मामेवैष्यसि प्राप्स्यसि । असंशयो नात्र संशयो विद्यते । इदं च सगुणब्रह्मचिन्तनमुपासकानामुक्तं

चाऽपीत्येव पाठः।


  1. ग.न्यमपि य कचि ।
  2. क. ख. घ. ङ, छ, ज.पि ये कंचि'।
  3. क. ख. ग. घ. छ.ज, वाऽपि ।
  4. ङ. सततं ।
  5. ज. 'देवम्-तस्मा।