पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० १क्ष्लो०३९-४० ]
२३
श्रीमद्भगवद्गीता ।


र्शने वेदमूलत्वं न कल्प्यत इति स्थापितम् । यद्यप्येते न पश्यन्ति तथाऽपि कथमस्माभिर्न ज्ञेयमित्युत्तरश्लोकेन संबन्धः ॥ ३८ ॥

 म० टी०- ननु यद्यप्येते लोभात्प्रवृत्तास्तथाऽपि आहूतो न निवर्तेत द्युतादपि रणादपीति विजितं क्षत्रियस्येत्यादिभिः [च } क्षत्रियस्य युद्धं धर्मो युद्धार्जितं च धर्म्यं धनमिति धर्मशास्त्रे निश्चयाद्भवतां च तैराहूतत्वाद्युद्धे प्रवृत्तिरुचितैवेति श[१] ङ्कयाऽऽहं---

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ॥
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥

 अस्मात्पापाद्बन्धुवधफलकयुद्धरूपात् । अयमर्थः---श्रेयःसाधनताज्ञानं हि प्रवतकं, श्रेयश्च तद्यदश्रेयोननुबन्धि, अन्यथा श्येनादीनामपि धर्मत्वापत्तेः। तथा चोक्तं--

फलतोऽपि च यत्कर्म नानर्थेनानुबध्यते ।
केवलप्रीति हेतुत्वात्तद्धर्म इति कथ्यते " इति ॥

 ततश्चाश्रेयोनुबन्धितया शास्त्रप्रतिपादितेऽपि श्येनादाविवास्मिन्युद्धेऽपि नास्माकं प्रवृत्तिरुचितेति ॥ ३९ ॥

 श्री० टी०-- ननु तवैतेषामपि बन्धुवधदोषे समाने सति यथैवैते बन्धुवधदोषमङ्गीकृत्य युद्धे प्रवर्तन्ते तथैव भवानपि प्रवर्तता किमनेन विषादेनेत्यत आह द्वाभ्याम्यद्यपीति । राज्यलोभेनोपहतं भ्रष्टविवेकं चेतो येषां त एते दुर्योधनादयो यद्यपि दोष न पश्यन्ति तथाऽप्यस्माभिर्दोषं प्रपश्यद्भिरस्मात्पापान्निवर्तितुं कथं न ज्ञेयम्, निवृत्तावैव बुद्धिः कर्तव्येत्यर्थः ॥ ३८ ॥ ३९ ॥

 म० टी०--एवं च विजयादीनामश्रेयस्त्वेनानाकाङ्क्षितत्वान्न तदर्थं प्रवर्तितव्यमिति द्रढयितुमनर्थानुबन्धित्वेनाश्रेयस्त्वमेव प्रपञ्चयन्नाह--

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ॥
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ४० ॥

 सनातनाः परम्पराप्राप्ताः कुलधर्माः कुलोचिता धर्माः कुलक्षये प्रणश्यन्ति कर्तुरभावात् । उतापि अग्निहोत्राद्यनुष्ठातृपुरुषनाशेन धर्मे नष्टे जात्यभिप्रायमेकवचनम्, अवशिष्टं बालादिरूपं कृत्स्नमपि कुलमधर्मोऽभिभवति स्वाधीनत्या व्याप्नोति । उतशब्दः कृत्स्नपदेन संबध्यते ॥ ४० ॥

 श्री० टी०-तमेव दोषं दर्शयति-कुलक्षय इति । सनातनाः परम्पराप्राप्ताः । उतापि कृत्स्नमपि अवशिष्टं कुलमधर्मोऽभिभवति व्याप्नोति ॥ ४० ॥


  1. ग. घ. च. झ. शङ्कयामाह।