पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०७क्ष्लो०१०]
२४७
श्रीमद्भगवद्वीता।


दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ १४ ॥

 दैवी, “एको देवः सर्वभूतेषु गूढः" इत्यादिश्रुतिप्रतिपादिते स्वतोद्योतनवति देवे स्वप्रकाशचैतन्यानन्दे निर्विभागे तदाश्रयतया तद्विषयतया च कल्पिता “ आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला" इत्युक्तेः । एषा साक्षिप्रत्यक्षत्वेनापलापानर्हा । हिशब्दाद्भ्रमोपादानत्वादर्थापत्तिसिद्धा च । गुणमयी सत्त्वरजस्तमोगुणत्रयात्मिका । त्रिगुणरज्जुरिवातिदृढत्वेन बन्धनहेतुः, मम मायाविनः परमेश्वरस्य सर्वजगत्कारणस्य सर्वज्ञस्य सर्वशक्तेः स्वभूता स्वाधीनत्वेन जगत्सृष्ट्वादिनिर्वाहिका, माया तत्त्वप्रतिभासप्रतिबन्धेनातत्त्वप्रतिभासहेतुरावरणविक्षेपशक्तिद्वयवत्यविद्या सर्वप्रपञ्चप्रकृतिः " मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ” इति श्रुतेः । अत्रैवं प्रक्रियाजीवेश्वरजगद्विभागशून्ये शुद्धे चैतन्येऽध्यस्ताऽनादिरविद्या सत्त्वप्राधान्येन स्वच्छा दर्पण इव मुखाभासं चिदाभासमागृह्णाति । ततश्च बिम्बस्थानीयः परमेश्वर उपाधिदोषानास्कन्दितः प्रतिबिम्बस्थानीयश्च जीव उपाधिदोषास्कन्दितः । ईश्वराच्च जीवमोगायाऽऽकाशादिक्रमेण शरीरेन्द्रियसंघातस्तद्भोग्यश्च कृत्स्नः प्रपञ्चो जायत इति कल्पना भवति । बिम्बप्रतिबिम्बमुखानुगतमुखवच्चेशजीवानुगतं मायोपाधि चैतन्यं साक्षीति कल्प्यते । तेनैव च स्वाध्यस्ता माया तत्कार्यं च कृत्स्नं प्रकाश्यते । अतः साक्ष्यभिप्रायेण देवीति बिम्बेश्वराभिप्रायेण तु ममेति भगवतोक्तम् । यद्यप्यविद्याप्रतिबिम्ब एक एव जीवस्तथाऽप्यविद्यागतानामन्तःकरणसंस्काराणां भिन्नत्वात्तद्भेदेनान्त:- करणोपास्तस्यात्र भेदव्यपदेशो मामेव ये प्रपद्यन्ते दुष्कृतिनो मूढा न प्रपद्यन्ते चतुर्विधा भजन्ते मामित्यादिः । श्रुतौ च " तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम् ” इत्यादिः । अन्तःकरणोपाधिभेदापर्यालोचने तु जीवत्वप्रयोजकोपाधेरेकत्वादेकत्वेनैवात्र व्यपदेशः "क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु" "प्रकृतिं पुरुषं चैव विद्धयनादी उभावपि” “ममैवांशो जीवलोके जीवभूतः सनातनः" इत्यादिः। श्रुतौ च "ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्", एको देवः सर्वभूतेषु गूढः, "" अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य,"

"वालाग्रशतभागस्य शतधा कल्पितस्य च ।
भागो जीवः स विज्ञेयः स चाऽऽनन्त्याय कल्पते "

 इत्यादिः । यद्यपि दर्पणगतश्चैत्रप्रतिबिम्बः स्वं परं च न जानात्यचेतनांशस्यैव तत्र प्रतिबिम्बितत्वात्तथाऽपि चित्प्रतिबिम्बश्चित्त्वादेव स्वं परं च जानाति, प्रतिबिम्बपक्षे बिम्बचैतन्य एवोपाधिस्थत्वमात्रस्य कल्पितत्वात् , आभासपक्षे तस्यानिर्वचनीयत्वेऽपि जडविलक्षणत्वात् । स च यावत्स्वबिम्बैक्यमात्मनो न जानाति तावज्जलसूर्य इव जलग-