पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४६
[अ०७क्ष्लो०१३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 ये चान्येऽपि भावाश्चित्तपरिणामाः सात्त्विकाः शमदमादयः । ये च राजसा हर्षदर्पादयः । ये च तामसाः शोकमोहादयः प्राणिनामविद्याकर्मादिवशाज्जायन्ते तान्मत्त एव जायमानान् इति अहं कृत्स्नस्य जगतः प्रभव इत्यायुक्तप्रकारेण विद्धि समस्तानेव । अथवा सात्त्विका राजसास्तामसाश्च भावाः सर्वेऽपि जडवर्गा व्याख्येया विशेषहेत्वभावात् । एवकारश्च समस्तावधारणार्थः । एवमपि न त्वहं तेषु, मत्तो जातत्वेऽपि तद्वशस्तद्विकाररूषितो रज्जुखण्ड इव कल्पितसर्पविकाररूषितोऽहं न भवामि संसारीव । ते तु भावा मयि रज्ज्वामिव सर्पादयः कल्पिता मदधीनसत्तास्फूर्तिका मद[१]धीना इत्यर्थः ॥ १२॥

 श्री०टी०- किं च-ये चेति । ये चान्येऽपि सात्त्विका भावाः शमदमादयः, राजसाश्च हर्षददियः, तामसाश्च ये शोकमोहादयः प्राणिनां स्वकर्मवशाज्जायन्ते तान्सर्वान्मत्त एव जातानि(इ)ति विद्धि मदीयप्रकृतिगुणकार्यत्वात् । एवमपि तेष्वहं न वर्ते जीववत्तदधीनोऽहं न भवामीत्यर्थः । ते तु मदधीनाः सन्तो मयि वर्तन्त इत्यर्थः ॥१२॥

 म०टी०-तव परमेश्वरस्य स्वातन्व्ये नित्यशुद्धबुद्धमुक्तस्वभावत्वे च सति कुतो जगतस्त्वदात्मकस्य संसारित्वम् । एवंविधमत्स्वरूपापरिज्ञानादिति चेत् , तदेव कुत इत्यत आह-

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ॥
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ १३॥

 एभिः प्रागुक्तैस्त्रिभिस्त्रिविधैर्गुणमयैः सत्त्वरजस्तमोगुणविकारैर्भावैः सर्वैरपि भवनधर्मभिः सर्वमिदं जगत्प्राणिजातं मोहितं विवेकायोग्यत्वमापादितं सदेभ्यो गुणमयेभ्यो मावेभ्यः परमेषां कल्पनाधिष्ठानमत्यन्तविलक्षणमव्ययं सर्वविक्रियाशून्यमप्रपञ्चमानन्दघनमात्मप्रकाशमव्यवहितमपि मां नाभिजानाति । ततश्च स्वरूपापरिचयात्संसरतीवे. त्यहो दौर्भाग्यमविवेकिजनस्येत्यनुक्रोशं दर्शयति भगवान्[२] ॥ १३ ॥

 श्री०टी०-एवंभूतं त्वां परमेश्वरमयं जनः किमिति न जानातीत्यत आह- त्रिभिरिति । त्रिभिस्त्रिविधैरेभिः पूर्वोक्तैः कामलोभादिभिर्गुणमयैर्गुणविकारैर्भावैः स्वभावैर्मोहितमिदं जगत् । अतो मां नाभिजानाति । कथंभूतम् , एभ्यो भावेभ्यः परमेमिरसंस्पृष्टमेतेषां नियन्तारम् । अत एवाव्ययं निर्विकारमित्यर्थः ॥ १३ ॥

 म०टी०----ननु यथोक्तानादिसिद्धमायागुणत्रयबद्धस्य जगतः स्वातन्त्र्याभावेन तत्परिवर्जनासामर्थ्यान्न कदाचिदपि मायातिक्रमः स्याद्वस्तुविवेकासामर्थ्यहेतोः सदातनत्वादित्याशङ्कय भगवदेकशरणतया तत्त्वज्ञानद्वारेण मायातिक्रमः संभवतीत्याह-


  1. छ. दधिष्ठाना ।
  2. क, ख. घ. ङ. च. ज. झ. अ. न् ॥ १३ ॥ य ।