पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो०३६]
२२७
श्रीमद्भगवद्गीता।


औत्सुक्यमात्रेण मनस्यवस्थानमेकेन्द्रियम् । मनस्यपि तृष्णाशून्यत्वेन सर्वथा वैतृष्ण्यं तृष्णाविरोधिनी चित्तवृत्तिर्ज्ञानप्रसादरूपा वशीकारसंज्ञा वैराग्यं संप्रज्ञातस्य समाधेरन्तरङ्गं साधनमसंप्रज्ञातस्य तु बहिरङ्गम् । तस्य त्वन्तरसाधनं परमेव वैराग्यम् । तच्चासूत्रयत्-" तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ” इति । संप्रज्ञातसमाधिपाटवेन गुणत्रयात्मकात्प्रधानाद्विविक्तस्य पुरुषस्य ख्यातिः साक्षात्कार उत्पद्यते । ततश्चाशेषगुणत्रयव्यवहारेषु वैतृष्ण्यं यद्भवति तत्परं श्रेष्ठं फलभूतं वैराग्यम् । तत्परिपाकनिमित्ताच्च चित्तोपशमपरिपाकादविलम्बेन कैवल्यमिति ॥ ३५॥

 श्री०टी०-तदुक्तं चञ्चलत्वादिकमगीकृत्यैव मनोनिग्रहोपायं श्रीभगवानुवाच---- असंशयमिति । चञ्चलत्वादिना मनो निरोद्धमशक्यमिति यद्वदसि एतन्निःसंशयमेव, तथाऽपि [१]तु अभ्यासेन परमात्माकारप्रत्ययावृत्त्या विषयवैतृष्ण्येन च गृह्यते निगृह्यते, अभ्यासेन लयप्रतिबन्धाद्वैराग्येण च विक्षेपप्रतिबन्धादुपरतवृत्तिकं सत्परमात्माकारेण परिणतं तिष्ठतीत्यर्थः । तदुक्तं योगशास्त्रे-

" मनसो वृत्तिशून्यस्य ब्रह्माकारतया स्थितिः ।
याऽसंप्रज्ञातनामाऽसौ समाधिरभिधीयते" इति ॥३५ ॥

 म०टी०-~-'यत्तु त्वमवोचः प्रारब्धभोगेन कर्मणा तत्त्वज्ञानादपि प्रबलेन स्वफलदानाय मनसो वृत्तिषूत्पाद्यमानासु कथं तासां निरोधः कर्तुं शक्य इति तत्रोच्यतेअसंयतात्मना योगो दुष्पाप इति मे मतिः ॥ वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ३६॥

 उत्पन्नेऽपि तत्त्वसाक्षात्कारे वेदान्तव्याख्यानादिव्यासङ्गादालस्यादिदोषाद्वाऽभ्यासवैराग्याभ्यां न संयतो निरुद्ध आत्माऽन्तःकरणे येन तेनासंयतात्मना तत्त्वसाक्षात्कारवताऽपि योगो मनोवृत्तिनिरोधो दुष्प्रापो दुःखेनापि प्राप्तुं न शक्यते प्रारब्धकर्मकृताच्चित्तचाञ्चल्यादिति चेत्त्वं वदसि तत्र मे मतिर्मम संमतिस्तत्तथैवेत्यर्थः । केन तर्हि प्राप्यते, उच्यते-वश्यात्मना तु वैराग्यपरिपाकेन(ण) वासनाक्षये सति वश्यः स्वाधीनो विषयपारतन्त्र्यशून्य आत्माऽन्तःकरणं यस्य तेन । तुशब्दोऽसंयतात्मनो वैलक्षण्यद्योतनार्थोऽवधारणार्थो वा । एतादृशेनापि यतता यतमानेन वैराग्येण विषयस्रोतःखिलीकरणेऽष्यात्मस्रोतउद्धाटनार्थमभ्यासं प्रागुक्तं कुर्वता योगः सर्वचित्तवृत्तिनिरोधः शक्योऽवाप्तुं चित्तचाञ्चल्यनिमित्तानि प्रारब्धकर्माण्यप्यभिभूय प्राप्तुं शक्यः । कथमतिबलवतामारब्धभोगानां कर्मणामभिभवः, उच्यते-उपायत उपायात् । उपायः पुरुषकारस्तस्य लौकिकस्य वैदिकस्य वा प्रारब्धकर्मापेक्षया प्राबल्यात् । अन्यथा लौकि-


  1. क. घ. ञ. तु विषयाचिन्तनपूर्वकमभ्या' ।