पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
[अ०६ क्ष्लो ०३५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


भगवान्पतञ्जलिरसूत्रयत्-" अभ्यासवैराग्याम्यां तन्निरोधः” इति । तासां प्रागुक्तानां प्रमाणविपर्ययविकल्पनिद्रास्मृतिरूपेण पञ्चविधानामनन्तानामासुरत्वेन क्लिष्टानां दैवत्वेनाक्लिष्टानामपि वृत्तीनां सर्वासामपि निरोधो निरिन्धनाग्निवदुपशमाख्यः परिणामोऽभ्यासेन वैराग्येण च समुच्चितेन भवति । तदुक्तं योगभाष्ये-चित्तनदी नामोमयतोवाहिनी वहति कल्याणाय वहति पापाय च । तत्र या कैवल्यप्राग्मारा विवेकनिम्ना सा कल्याणवहा । या त्वविवेकनिम्ना संसारप्राग्भारा सा पापवहा । तत्र वैराग्येण विषयस्रोतः खिली क्रियते । विवेकदर्शनाभ्यासेन च कल्याणस्रोत उद्घाट्यते, इत्युभयाधीनश्चित्तवृत्तिनिरोध इति । प्राग्भारनिम्नपदे “तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्" इत्यत्र व्याख्याते । यथा तीव्रवेगोपेतं नदीप्रवाहं सेतुबन्धनेन निवार्य कुल्याप्रणयनेन क्षेत्राभिमुखं तिर्यक्प्रवाहान्तरमुत्पाद्यते तथा वैराग्येण चित्तनद्या विषयप्रवाहं निवार्य समाध्यभ्यासेन प्रशान्तवाहिता संपाद्यत इति द्वारभेदात्समुच्चय एव, एकद्वारत्वे हि व्रीहियववद्विकल्पः स्यादिति । मन्त्रजपदेवताध्यानादीनां क्रियारूपाणामावृत्तिलक्षणोऽभ्यासः संभवति । सर्वव्यापारोपरमस्य तु समाधेः को नामाभ्याप्त इति शङ्कां निवारयितुमभ्यासं सूत्रयति स्म " तत्र स्थितौ यत्नोऽभ्यासः" इति । तत्र स्वरूपावस्थिते द्रष्टरि शुद्ध चिदात्मनि चित्तस्यावृत्तिकस्य प्रशान्तवाहितारूपा निश्चलतास्थितिस्तदर्थं यत्नो मानस उत्साहः स्वभावचाञ्चल्याद्बहिष्प्रवाहशीलं चित्तं सर्वथा निरोत्स्यामीत्येवंविधः । स आवर्त्यमानोऽभ्यास उच्यते । “स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः" अनिर्वेदेन दीर्घकालासेवितो विच्छेदाभावेन निरन्तरासेवितः सत्कारेण श्रद्धातिशयेन चाऽऽसेवितः । सोऽभ्यासो दृढभूमिर्विषयसुखवासनया चालयितुमशक्यो भवति । अदीर्घकालत्वे दीर्घकालत्वेऽपि विच्छिद्य विच्छिद्य सेवने श्रद्धातिशयाभावे च लयविक्षेपकषायसुखास्वादानामपरिहारे व्युत्थानसंस्कारप्राबल्याददृढभूमिरभ्यासः फलाय न स्यादिति त्रयमुपात्तम् । वैराग्यं तु द्विविधमपरं परं च । यतमानसंज्ञाव्यतिरेकसज्ञैकेन्द्रियसंज्ञावशीकारसंज्ञामेदैरपरं चतुर्धा । तत्र पूर्वभूमिजयनोत्तरभूमिसंपादन विवक्षया चतुर्थमेवासूत्रयत्-"दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञावैराग्यम्" इति । स्त्रियोऽन्नं [१]पानमैश्वर्यमित्यादयो दृष्टा विषयाः । स्वर्गों विदेहता प्रकृतिलय इत्यादयो वैदिकत्वेनाऽऽनुश्रविका विषयास्तेषूभयविधेष्वपि सत्यामेव तृष्णायां विवेकतारतम्येन यतमानादित्रयं भवति । अत्र जगति किं सारं किमसारमिति गुरुशाखाम्यां ज्ञास्यामीत्युद्योगो यतमानम् । स्वचित्ते पूर्वविद्यमानदोषाणां मध्येऽभ्यस्यमानविवेकेनैते पक्वा एतेऽवशिष्टा इति चि[२]कित्सकवद्विवेचनं व्यतिरेकः । दृष्टानुश्रविकविषयप्रवृत्तेर्दुःखात्मत्वबोधेन बहिरिन्द्रियप्रवृत्तिमजनयन्त्या अपि तृष्णाया


  1. ग. इ. छ. अ, पानं मैथुनमै ।
  2. ग. कित्सावशादि । ङ. छ. अ. 'कित्साव।