पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो०१५]
२०१
श्रीमद्भगवद्गीता।


निम्नं कैवल्यप्राग्भारं चित्तम् " निम्नं जलप्रवहणयोग्यो नीचदेशः । प्राग्भारस्तदयोग्य उच्चप्रदेशः । चित्तं च सर्वदा प्रवर्तमानवृत्तिप्रवाहेण प्रवहज्जलतुल्यं, तत्प्रागात्मानात्माविवेकरूपविमार्गवाहिविषयभोगपर्यन्तमस्याऽऽसीत् । अधुना त्वात्मानात्मविवेकमार्गवाहिकैवल्यपर्यन्तं संपद्यत इति । अस्मिंश्च विवेकवाहिनि चित्ते येऽन्तरायास्ते सहेतुका निवर्तनीया इत्याह सूत्राभ्यां " तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः, हानमेषां केशवदुक्तं " तस्मिन्विवेकवाहिनि चित्ते छिद्रेष्वन्तरालेषु प्रत्ययान्तराणि व्युत्थानरूपाण्यहं ममेत्येवंरूपाणि व्युत्थानानुभवजेभ्यः संस्कारेभ्यः क्षीयमाणेभ्योऽपि प्रादुर्भवन्ति । एषां च संस्काराणां क्लेशानामिव हानमुक्तं, यथा क्लेशा अविद्यादयो ज्ञानाग्निना दग्धबीजभावा न पुनश्चित्तभूमौ प्ररोहं प्राप्नुवन्ति तथा ज्ञानाग्निना दग्धबीजभावाः संस्काराः प्रत्ययान्तराणि न [१]प्रसेढुमर्हन्ति । ज्ञानाग्निसंस्कारास्तु यावञ्चित्तमनुशेरत इति । एवं च प्रत्ययान्तरानुदयेन विवेकवाहिनि चित्ते स्थिरीभूते सति " प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्ममेवः समाधिः " प्रसंख्यानं सत्त्वपुरुषान्यताख्यातिः शुद्धात्मज्ञानमिति यावत् । तत्र बुद्धेः सात्त्विके परिणामे कृतसंयमस्य सर्वेषां गुणपरिणामानां स्वामिवदाक्रमणं सर्वाधिष्ठातृत्वं तेषामेव च शान्तोदिताव्यपदेश्यवर्मित्वेन स्थितानां यथावद्विवेकज्ञानं सर्वज्ञातृत्वं च विशोका नाम सिद्धिः फलं तद्वैराग्याच्च कैवल्यमुक्तं " सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च" " तद्वैराग्यादपि दोषबीजक्षये कैवल्यम्" इति सूत्राभ्यां, तदेतदुच्यते तस्मिन्प्र- संख्याने सत्यप्यकुसीदस्य फलमलिप्सोः प्रत्ययान्तराणामनुदये सर्वप्रका[२]रैविवेकख्यातेः परिपोषाद्धर्ममेवः समाधिर्भवति ।

" इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद्योगेनाऽऽत्मदर्शनम् ," इति स्मृतेः ॥

 धर्म प्रत्यग्ब्रह्मैक्यसाक्षात्कारं मेहति सिञ्चतीति धर्ममेघस्तत्त्वसाक्षात्कारहेतुरित्यर्थः । “ ततः क्लेशकर्मनिवृत्तिः " ततो धर्ममेघालसमाधेर्धर्माद्वा क्लेशानां पञ्चविधानामविद्यास्मितारागद्वेषाभिनिवेशानां कर्मणां च कृष्णशक्लकृष्णशुक्लभेदेन त्रिविधानामविद्यामूलानामविद्यालये बीजक्षयादात्यन्तिकी निवृत्तिः कैवल्यं भवति । कारणनिवृत्त्या कार्यनिवृत्तेरात्यन्तिक्या उचितत्वादित्यर्थः । एवं स्थिते “ युञ्जन्नेवं सदाऽऽत्मानम् " इत्यनेन संप्रज्ञातः समाधिरेकाग्रभूमावुक्तः । नियतमानस इत्यनेन तत्फलभूतोऽसंप्रज्ञातसमाधिनिरोधभूमावुक्तः । शान्तिमिति निरोधसमाधिजसंस्कारफलभूता प्रशान्तवाहिता । निर्वाणपरमामिति धर्ममेवस्य समाधेस्तत्त्व


  1. ख. घ. ङ. छ. ज. झ. अ. प्रसोतुम । म. च. प्रसवितुम ।
  2. क. ख. घ. ङ. च. छ. कारं विवें । ज. स. 'कारविवे।