पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
[अ०६ क्ष्लो०१५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--


प्रज्ञातः समाधिर्मुमुक्षूणामित्यर्थः । “प्रतिक्षणपरिणामिनो हि भावा ऋते चितिशक्तेः " इति न्यायेन तस्यामपि सर्ववृत्तिनिरोधावस्थायां चित्तपरिणामप्रवाहस्तज्जन्यसंस्कारप्रवाहश्च भवत्येवेत्यभिप्रेत्य संस्कारशेष इत्युक्तम् । तस्य च संस्कारस्य प्रयोजनमुक्तम् -"ततः प्रशान्तवाहिता संस्कारात्" इति । प्रशान्तवाहिता नामावृत्तिकस्य चित्तस्य निरिन्धनाग्निवत्प्रतिलोमपरिणामेनोपशमः । यथा समिदाज्याद्याहुतिप्रक्षेपे वह्निरुत्तरोत्तरवृद्ध्या प्रज्वलति । समिदादिक्षये तु प्रथमक्षणे किंचिच्छाम्यति । उत्तरोत्तरक्षणेषु त्वधिकमधिकं शाम्यतीति क्रमेण शान्तिर्वर्धते । तथा निरुद्धचित्तस्योत्तरोत्त[१]राधिकः प्रशमः प्रवहति । तत्र पूर्वप्रशमजनितः संस्कार एवोत्तरोत्तरप्रशमस्य कारणम् । तदा च निरिन्धनाग्निवञ्चित्तं क्रमेणोपशाम्यद्व्युत्थानसमाधिनिरोधसंस्कारैः सह स्वस्यां प्रकृतौ लीयते । तदा च समाधिपरिपाकप्रभवेन वेदान्तवाक्यजेन सम्यग्दर्शनेनाविद्यायां निवृत्तायां तद्धेतुकदृग्दृश्यसंयोगाभावावृत्तौ पञ्चविधायामपि निवृत्तायां स्वरूपप्रतिष्ठः पुरुषः शुद्धः केवलो मुक्त इत्युच्यते । तदुक्तं " तदा द्रष्टुः स्वरूपेऽवस्थानम् " इति । तदा सर्ववृत्तिनिरोधे । वृत्तिदशायां तु नित्यापरिणामिचैतन्य रूपत्वेन तस्य सर्वदा शुद्धत्वेऽप्यनादिना दृश्यसंयोगेनाऽऽविद्यकेनान्तःकरणतादात्म्याध्यासादन्तःकरणवृत्तिसारूप्यं । प्राप्नुवन्नभोक्ताऽपि भोक्तेव भोक्तव दुःखानां भवति । तदुक्तं " बृत्तिसारूप्यमितरत्र " इतरत्र वृत्तिप्रादुर्भाये । एतदेव विवृतं " द्रष्टुदृश्योपरक्तं चित्तं सर्वार्थम् ” चित्तमेव द्रष्टुदृश्योपरक्तं विषयिविषयनिर्भासं चेतनाचेतनस्वरूपापन्नं विषयात्मकमप्यविषयात्मकमिवाचेतनमपि चेतनमिव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते । तदनेन चित्तसारूप्येण भ्रान्ताः केचित्तदेव चेतनमित्याहुः । " तदसंख्येयवासनाभिश्चित्तमपि परार्थं संहत्यकारित्वात् ” यस्य भोगापवर्गार्थं तत्स एव परश्चेतनोऽसंहतः पुरुषो न तु घटादिवत्संहत्यकारि चित्तं चेतनमित्यर्थः । एवं च " विशेषदर्शिन आत्मभावभावनानिवृत्तिः ” एवं योऽन्तःकरणपुरुषयोर्विशेषदर्शी तस्य याऽन्तःकरणे प्रागविवेकवशादात्ममावभावनाऽऽसीत्सा निवर्तते, भेददर्शने सत्यभेदभ्रमानुपपत्तेः । सत्त्वपुरुषयोर्विशेषदर्शनं च भगवदर्पितनिष्कामकर्मसाध्यं, तल्लिङ्गं च योगभाष्ये दर्शितम् --यथा प्रावृषि तृणाङ्कुरस्योद्भेदेन तद्बीजसत्ताऽनुमीयते तथा मोक्षमार्गश्रवणेन सिद्धान्तरुचिवशाद्यस्य लोमहर्षाश्रुपातौ दृश्येते तत्राप्यस्ति विशेषदर्शनबीजमपवर्गमार्गीय कर्माभिनिवर्तितमित्यनुमीयते । यस्य तु तादृशं कर्मबीजं नास्ति तस्य मोक्षमार्गश्रवणे पूर्वपक्षयुक्तिषु रुचिर्मवत्यरुचिश्च सिद्धान्तयुतिषु । तस्य कोऽहमासं कथमहमासमित्यादिरात्मभावभावना स्वाभाविकी प्रवर्तते । सा तु विशेषदर्शिनो निवर्तत इति । एवं सति किं स्यादिति तदाह-" तदा विवेक-


  1. ग. अ. अ. "तरक्षणेषु त्वधि ।