पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०६क्ष्लो ० १४-१५]
१९५
श्रीमद्भगवद्गीता।


म०टी०-कि च-
 प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः ॥
 मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १४॥

 निदाननिवृत्तिरूपेण प्रकर्षेण शान्तो रागादिदोषरहित आत्माऽन्तःकरणं यस्य स प्रशान्तात्मा शास्त्रीयनिश्चयदाढर्याद्विगता भीः सर्वकर्मपरित्यागेन युक्तत्वायुक्तत्वशङ्का यस्य स विगतभीः, ब्रह्मचारिव्रते ब्रह्मचर्यगुरुशुश्रूषाभिक्षाभोजनादौ स्थितः सन् , मनः संयम्य विषयाकारवृत्तिशून्यं कृत्वा, मयि परमेश्वरे प्रत्यक्चिति सगुणे निर्गुणे वा चित्तं यस्य स मच्चित्तो मद्विषयकधारावाहिकचित्तवृत्तिमान् । पुत्रादौ प्रिये चिन्तनीये सति कथमेवं स्यादत आह-मत्परः, अहमेव परमानन्दरूपत्वात्परः पुरुषार्थः प्रियो यस्य स तथा । " तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादरतरं यदयमात्मा " इति श्रुतेः । एवं विषयाकारसर्ववृत्तिनिरोधेन भगवदेकाकारचित्त- वृत्तिर्युक्तः संप्रज्ञातसमाधिमानासीतोपविशेद्यथाशक्ति, न तु स्वेच्छया व्युत्तिष्ठेदित्यर्थः । भवति कश्चिद्रागी स्त्रीचित्तो न तु स्त्रियमेव परत्वेनाऽऽराध्यत्वेन गृह्णाति किं तर्हि राजानं वा देवं वा । अयं तु मच्चित्तो मत्परश्च सर्वाराध्यत्वेन मामेव मन्यत इति भाष्यकृतां व्याख्या।

व्याख्यातृत्वेऽपि मे नात्र भाष्यकारेण तुल्यता ।
गुञ्जायाः किं नु हेम्नैकतुलारोहेऽपि तुल्यता ॥ १४ ॥

 श्री०टी०-प्रशान्तेति । प्रशान्त आत्मा चित्तं यस्य, विगता भीर्भयं यस्य, ब्रह्मचारिव्रते ब्रह्मचर्ये स्थितः सन्मनः संयम्य प्रत्याहृत्य मय्येव चित्तं यस्य, अहमेव परः पुरुषार्थो यस्य स मत्परः । एवं युक्तो भूत्वाऽऽसीत तिष्ठेत् ॥ १४ ॥

 म०टी०-एवं संप्रज्ञातसमाधिनाऽऽसीनस्य किं स्यादित्युच्यतेयुञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः ॥ शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५॥

 एवं रहोवस्थानादिपूर्वोक्तनियमेनाऽऽत्मानं मनो युञ्जन्नभ्यासवैराग्याभ्यां समाहितं कुर्वन्योगी सदा योगाभ्यासपरोऽभ्यासातिशयेन नियतं निरुद्धं मानसं मनो येन नियता निरुद्धा मानसा मनोवृत्तिरूपा विकारा येनेति वा नियतमानसः सन् , शान्तिं सर्ववृत्त्युपरतिरूपां प्रशान्तवाहितां निर्वाणपरमां तत्त्वसाक्षात्कारोत्पत्तिद्वारेण सकार्याविद्यानिवृत्तिरूपमुक्तिपर्यवसायिनीं मत्संस्थां मत्स्वरूपपरमानन्दरूपां निष्ठामधिगच्छति, न तु सांसारिकाण्यैश्वर्याणि अनात्मविषयसमाधिफलान्यधिगच्छति, तेषामपवर्गोपयोगिसमाध्युपसर्गत्वात् । तथा च तत्तत्समाधिफलान्युक्त्वाऽऽह भगवान्पतञ्जलिः- -