" ते समाधावुपसर्गा व्युत्थाने सिद्धयः" इति । " स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् " इति च । स्थानिनो देवाः। तथाचोद्दालको देवैरामन्त्रितोऽपि
तत्र सङ्गमादरं स्मयं गर्व चाकृत्वा देवानवज्ञाय पुनरनिष्टप्रसङ्गनिवारणाय निर्विकरुपकमेव समाधिमकरोदिति वसिष्ठेनोपाख्यायते । मुमुक्षुभिर्हेयश्च समाधिः सूत्रितः
पतञ्जलिना--वितर्कविचारानन्दास्मितानुगमात्संप्रज्ञातः । सम्यक्संशयविपर्ययानध्यवसायरहितत्वेन प्रज्ञायते प्रकर्षेण विशेषरूपेण ज्ञायते भाव्यस्य रूपं येन स संप्रज्ञातः
समाधिर्भावनाविशेषः । भावना हि भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम् । भाव्यं च त्रिविधं ग्राह्यग्रहणग्रहीतृभेदात् । ग्राह्यमपि द्विविधं स्थूलसूक्ष्मभेदात् । तदुक्तं "क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनतासमापत्तिः ।
क्षीणा राजसतामसवृत्तयो यस्य तस्य चित्तस्य ग्रहीतग्रहणग्राह्येप्वात्मेन्द्रियनि
तत्स्थता तत्रैवैकाग्रता, तदञ्जनता तन्मयता न्यग्भूते चित्ते भाव्यमानस्यै
यावत् । तथाविधा समापत्तिस्तद्रूपः परिणामो भवति । यथानी
स्फटिकमणेस्तत्तदुपाश्रयवशात्तत्तद्रूपापत्तिरेवं निर्मलस्य नि
गात्तत्तद्रूपापत्तिः समापत्तिः समाधिरिति च पर्याय
ग्राह्येष्वित्युक्तं तथाऽपि भूमिकाक्रमवशाग्राह्यग्रता
। यतः प्रथमं
ग्राह्यनिष्ठ एव समाधिर्मवति ततोइति । ग्रहोत्रादिक्रमोऽ.
प्यग्रे व्याख्यास्यते । तत्र
द्रयात्मकषोडशविकाररूपं विषयमादाय पूर्वापरानुसंधानेन शब्दा "भावना क्रियते तदा सवितर्कः समाधिः ।
अस्मिन्नेवाऽऽलम्बने पूर्वापरानुसंधा शब्दार्थोल्लेखशून्यत्वेन यदा भावना प्रवर्तते तदा
निर्वितर्कः । एतावुभावप्यत्र वितर्कशब्देनोक्तौ । तन्मात्रान्तःकरणलक्षणं सूक्ष्मं
विषयमालम्ब्य तस्य देशकालधर्मावच्छेदेन यदा भावना प्रवर्तते तदा सविचारः ।
अस्मिन्नेवाऽऽलम्बने देशकालधर्मावच्छेदं विना भिमाना
प्रवर्तते तदा निर्वि
कश्चित्तस्य स्थल
व्यपदिश्यते । यद,
वि भाव्यते तदा गुणभावाच्चिच्छक्तेः सुखप्रकाशमयस्य सत्त्वस्य भाव्यमानस्योद्रेकात्सानन्दः समाधिर्भवति ।
अस्मिन्नेव समाधौ ये बद्धधृतयस्तत्त्वान्तरं प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहंकारत्वाद्विदेहशब्देनोच्यन्ते । इयं ग्रहणसमापत्तिः । ततः परं रजस्तमोलेशानभिभूतं
शुद्धं सत्त्वमालम्बनीकृत्य या भावना प्रवर्तते तस्यां ग्राह्यस्य सत्त्वस्य न्यग्भावाच्चितिशक्तेरुद्रेकात्सत्तामात्रावशेषत्वेन समाधिः सास्मित इत्युच्यते । न चाहंकारास्मितयोरभेदः
शङ्कनीयः । यतो यत्रान्तःकरणमहमित्युल्लेखेन विषयान्वेदयते सोऽहंकारः । यत्र त्वन्तर्मुस्वतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमवभाति साऽस्मिता । अस्मिन्नेव
पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१९९
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
[अ०६क्ष्लो०१५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-