पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
[अ०५क्ष्लो०२२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


तथा हि-"अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । अविद्या क्षेत्रमुत्तरेषां प्रसुसतनुविच्छिन्नोदाराणाम् | अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या । हदर्शनशक्त्योरेकात्मतैवास्मिता । सुखानुशयी रागः । दुःखानुशयी द्वेषः । स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः। ते प्रतिप्रसवहेयाः सूक्ष्माः। ध्यानहेयास्तद्वृत्तयः । क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । सति मूले तद्विपाको जात्यायुर्भोगाः" इति पातञ्जलानि सूत्राणि । तत्रातस्मिंस्तद्बुद्धिर्विपर्ययो मिथ्याज्ञानमविद्येति पर्यायाः । तस्या विशेषः संसारनिदानम् । तत्रानित्ये नित्यबुद्धिर्यथा-ध्रुवा पृथिवी ध्रुवा सचन्द्रतारका द्यौरमृता दिवौकस इति । अशुचौ परमबीभत्से कार्य शुचिबुद्धियथा-नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते नीलोत्पलपत्रायताक्षी हावगर्भाम्यां लोचनाम्यां जीवलोकमाश्वासयतीवेति कस्य केन संबन्धः।

“स्थानाद्वीजादुपष्टम्भान्निष्यन्दान्निधनादपि ।
कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः"

 इति च वैयासिकः श्लोकः । एतेनापुण्ये पुण्यप्रत्ययोऽनर्थे चार्थप्रत्ययो व्याख्यातः। दुःखे सुखख्यातिरुदाहता परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिन इति । अनात्मन्यात्मख्यातिर्यथा-शरीरे मनुष्योऽहमित्यादिः । इयं चाविद्या सर्वक्लेशमूलभूता तम इत्युच्यते । बुद्धिपुरुषयोरभेदाभिमानोऽस्मिता मोहः । साधनरहितस्यापि सर्वं सुखजातीयं मे भूयादिति विपर्ययविशेषो रागः । स एव महामोहः । दुःखसाधने विद्यमानेऽपि किमपि दुखं मे मा भूदिति विपर्ययविशेषो द्वेषः । स तामिस्रः । आयुरभावेऽप्येतैः शरीरेन्द्रियादिभिरनित्यैरपि वियोगो मे मा भूदित्याविद्वदङ्गनाबालं स्वाभाविकः सर्वप्राणिसाधारणो मरणत्रासरूपो विपर्ययविशेषोऽभिनिवेशः । सोऽन्धतामिस्त्रः । तदुक्तं पुराणे-

" तमो मोहो महामोहस्तामिस्त्रो ह्यन्वसंज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः" इति ॥

 एते च क्लेशाश्चतुरवस्था भवन्ति । तत्रासतोऽनुत्पत्तेरनभिव्यक्तरूपेणावस्थानं सुप्तावस्था । अभिव्यक्तस्यापि सहकार्यलाभात्कार्याजन[१]कत्वं तन्ववस्था । अभिव्यक्तस्य जनितकार्यस्यापि केनचिद्वलवताऽभिभवो विच्छेदावस्था । अभिव्यक्तस्य प्राप्तसहकारिसंपत्तेरप्रतिबन्धेन स्वकार्यकरत्वमुदारावस्था । एतादृगवस्थाचतुष्टयविशिष्टानामस्मितादीनां चतुर्णां विपर्ययरूपाणां क्लेशानामविद्यैव सामान्यरूपा क्षेत्रं प्रसवभूमिः, सर्वेषामपि विपर्ययरूपत्वस्य दर्शितत्वात् । तेनाविद्यानिवृत्त्यैव क्लेशानां निवृत्तिरित्यर्थः । ते


  1. ख. ग, घ, ङ. च. छ. ज. इ.ननं त ।