पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०५क्ष्लो०२३]
१७९
श्रीमद्भगवद्गीता।


मनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम् । स्मृतिश्च-“न जातु कामः" इत्यादिः । तस्माद्दुःखात्मकरागपरिणामत्वाद्विषयसुखमपि दुःखमेव कार्यकारणयोरभेदादिति परिणामदुःखत्वम् । तथा सुखानुभवकाले तत्प्रतिकूलानि दुःखसाधनानि द्वेष्टि । नानुपहत्य भूतान्युपभोगः संभवतीति भूतानि च हिनस्ति । द्वेषश्च सर्वाणि दुःखसाधनानि मे मा भूवन्निति संकल्पविशेषः । न च तानि सर्वाणि कश्चिदपि परिहर्तुं शक्नोति । अतः सुखानुभवकालेऽपि तत्परिपन्थिनं प्रति द्वेषस्य सर्वदैवावास्थितत्वात्तापदुःखं दुष्परिहरमेव । तापो हि द्वेषः । एवं[१] दुःखसाधनानि परिहर्तुमशक्तो मुह्यति चेति मोहदुःखताऽपि व्याख्येया। तथाचोक्तं योगभाष्यकारैः-सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति । तत्रास्ति द्वेषजः कर्माशयः । सुखसाधनानि च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते । ततः परमनुगृह्णात्युपहन्ति चेति परानुग्रहपीडाम्यां धर्माधर्मावुपचिनोति । स कर्माशयो लोभान्मोहाच्च भवतीत्येषा तापदुःखतोच्यते । तथा वर्तमानः सुखानुभवः स्वविनाशकाले संस्कारमाधत्ते । स च सुखस्मरणं, तच्च रागं, स च मनःकायवचनचेष्टां, सा च पुण्यापुण्यकर्माशयौ, तौ च जन्मादीति संस्कारदुःखता । एवं तापमोहयोरपि संस्कारौ व्याख्येयौ । एवं कालत्रयेऽपि दुःखानुवेधाद्विषयसुखं दुःखमेवेत्युक्त्वा स्वरूपतोऽपि दुःखतामाह-गुणवृत्तिविरोधाच्च, गुणाः सत्त्वरजस्तमांसि सुखदुःखमोहात्मकाः परस्परविरुद्धखभावा अपि तैलवर्त्यग्नय इव दीपं पुरुषभो[२]गोपयुक्तत्वेन त्र्यात्मकमेकं कार्यमारभन्ते । तत्रैकस्य प्राधान्ये द्वयोर्गुणभावात्प्रधानमात्रव्यपदेशेन सात्त्विकं राजसं तामसमिति त्रिगुणमपि कार्यमेकेन गुणेन व्यपदिश्यते । तत्र सुखोपभोगरूपोऽपि प्रत्यय उद्भूतसत्त्वकार्यत्वेऽप्यनुद्भूतरजस्तमःकार्यत्वात्रिगुणात्मक एव । तथा च सुखात्मकत्ववद्दुःखात्मकत्वं विषादात्मकत्वं च तस्य ध्रुवमिति दुःखमेव सर्वं विवेकिनः । न चैतादृशोऽपि प्रत्ययः स्थिरः । यस्माच्च[३]लं च गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तम् । नन्वेकः प्रत्ययः कथं परस्परविरुद्धसुखदुःखमोहत्वान्येकदा प्रतिपयत इति चेत्, न, उद्भूतानुभूतयोर्विरोधाभावात् । समवृत्तिकानामेव हि गुणानां युगपद्विरोधो न विषमवृत्तिकानाम् । यथा धर्मज्ञानवैराग्यैश्वर्याणि लब्धवृत्तिकानि लब्धवृत्तिकैरेवाध- र्माज्ञानावैराग्यानैश्वर्यैः सह विरुध्यन्ते न तु स्वरूपसद्भिः। प्रधानस्य प्रधानेन सह विरोधो न तु दुर्बलेनेति हि न्यायः। एवं सत्त्वरजस्तमांस्यपि परस्परं प्राधान्यमानं युग. पन्न सहन्ते न तु सद्भावमपि । एतेन परिणामतापसंस्कारदुःखेष्वपि रागद्वेषमोहानां युगपत्सद्भावो व्याख्यातः प्रसुप्ततनुविच्छिन्नोदाररूपेण क्लेशानां चतुरवस्थत्वात् ।


  1. क. ख. ङ. च. छ. ज. ज, वं च दुः।
  2. क. ख. ग. घ, ङ. च. छ. ज. अ. भोगप्रयु।
  3. ज. चञ्चलं।