पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०५क्ष्लो०२१]
१७७
श्रीमद्भगवद्गीता।


 श्री०टी०-ब्रह्मप्राप्तस्य लक्षणमाह-नेति । यो ब्रह्मविद्भूत्वा ब्रह्मण्येव स्थितः स प्रियं प्राप्य न प्रहृष्येन्न प्रहृष्यति अप्रियं च प्राप्य नोद्विजेन्न विषादतीत्यर्थः । यतः स्थिरबुद्धिः स्थिरा निश्चला बुद्धिर्यस्य । तत्कुतः, यतोऽसंमूढो निवृतमोहः ॥ २० ॥

 म०. टी०-ननु बाह्यविषयप्रीतेरनेकजन्मानुभूतत्वेनातिप्रबलत्वात्तदासक्तचित्तस्य कथमलौकिके ब्रह्मणि दृष्टसर्वसुखरहिते स्थितिः स्यात्, परमानन्दरूपत्वादिति चेत्, न, तदानन्दस्याननुभूतचरत्वेन चित्तस्थितिहेतुत्वाभावात् । तदुक्तं वार्तिके-

[१]अप्यानन्दः श्रुतः साक्षान्मानेनाविषयीकृतः ।
दृष्टानन्दाभिलाषं स न मन्दीकर्तुमप्यलम्" इति ॥

  तत्राऽऽह-

बाह्यस्पर्शेष्वसत्तात्मा विन्दत्यात्मनि यत्सुखम् ॥
स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्रुते ॥ २१ ॥

 इन्द्रियैः स्पृश्यन्त इति स्पर्शाः शब्दादयः । ते च बाह्या अनात्मधर्मत्वात् । तेष्वसक्तात्माऽनासक्तचित्तस्तृष्णाशून्यतया विरक्तः सन्नात्मनि अन्तःकरण एव बाह्यविषयनिरपेक्षं यदुपशमात्मकं सुखं तद्विन्दति लभते निर्मलसत्त्ववृत्त्या । तदुक्तं भारते-

यच्च कामसुखं लोके यच्च दिव्यं महत्मुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्" इति ॥

 अथवा प्रत्यगात्मनि त्वंपदार्थे यत्सुखं स्वरूपभूतं सुषुप्तावनुभूयमानं बाह्यविषयासक्तिप्रतिबन्धादलम्यमानं तदेव तदभावाल्लभते । न केवलं त्वंपदार्थसुखमेव लभते किं तु तत्पदार्थैक्यानुभवेन पूर्णसुखमपीत्याह-स तृष्णाशून्यो ब्रह्मणि परमात्मनि योगः समाधिस्तेन युक्तस्तस्मिन्व्यापृत आत्माऽन्तःकरणं यस्य स ब्रह्मयोगयुक्तात्मा । अथवा ब्रह्मणि तत्पदार्थे योगेन वाक्यार्थानुमवरूपेण समाधिना युक्त ऐक्यं प्राप्त आत्मा त्वंपदार्थस्वरूपं यस्य स तथा, सुखमक्षयमनन्तं स्वस्वरूपभूतमश्नुते व्याप्नोति सुखानुभवरूप एव सर्वदा भवतीत्यर्थः । नित्येऽपि वस्तुन्यविद्यानिवृत्त्यभिप्रायेण धात्वर्थयोग औपचारिकः । तस्मादात्मन्यक्षयसुखानुभवार्थी सन्बाह्यविषयप्रीतेः क्षणिकाया महानरकानुवन्धिन्याः सकाशादिन्द्रियाणि निवर्तयेत्तावतैव च ब्रह्मणि स्थितिर्भवतीत्यभिप्रायः॥२१॥

 श्री०टी०-मोहनिवृत्त्या बुद्धिस्थैर्ये हेतुमाह-बाह्यस्पर्शेष्विति । इन्द्रियैः स्पृश्यन्त इति स्पर्शा विषया बाह्येन्द्रियविषयेषु असक्तात्माऽनासक्तचित्त आत्मन्यन्तः- करणे यदुपशमात्मकं सात्त्विकं सुखं तद्विन्दति लभते । स चोपशमात्मकं सुखं लब्ध्वा


  1. ङ. च. छ. ज. ज. अथाऽऽन।