पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
[अ०५क्ष्लो०२० ]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 नापि कामादिधर्मवत्तया स्वत एव कलुषितं कामादेरन्तःकरणधर्मत्वस्य श्रुतिस्मृतिसिद्धत्वात् । तस्मानिर्दोषब्रह्मरूपा यतयो जीवन्मुक्ता अभोज्यान्नादिदोषदुष्टाश्चेति व्याहतम् । स्मृतिस्त्वविद्वद्गृहस्थविषयैव, तस्यान्नमभोज्यमित्युपक्रमात्, पूजात इति मध्ये निर्देशात् , धनाद्धर्माच्च हीयत इत्युपसंहाराच्चेति द्रष्टव्यम् ॥ १९ ॥

 श्री०टी०-ननु विषमेषु समदर्शनं निषिद्धं कुर्वन्तः कथं ते पण्डिताः । यथाऽऽह गौतमः-" समासमाभ्यां विषमसमे पूज्य(जा)तः" इति । अस्यार्थः- समाय पूजया विषमे प्रकारे कृते सति विषमाय च समे प्रकारे कृते सति स पूजक इहलोकात्परलोकाच्च हीयत इति, तत्राऽऽह-इहैवेति । इहैव जीवद्भिरेव तैः सृज्यत इति सर्गः संसारो जितो निरस्तः । कैः, येषां मनः साम्ये समत्वे स्थितम् । तत्र हेतुः- हि यस्माद्ब्रह्म समं निर्दोषं च तस्मात्ते समदर्शिनो ब्रह्मण्येव स्थिता ब्रह्मभावं प्राप्ता इत्यर्थः । गौतमोक्तस्तु दोषो ब्रह्मभावप्राप्तेः पूर्वमेव, [१]पूजात इति पूजकावस्थाश्रवणात् ॥ १९ ॥

 म०. टी०.यस्मान्निर्दोषं समं ब्रह्म तस्मात्तद्रूपमात्मानं साक्षात्कुर्वन्-

न प्रहृष्येत्प्रियं प्राप्य नोद्दिजेत्प्राप्य चाप्रियम् ॥
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥२०॥

 'दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः' इत्यत्र व्याख्यातं पूर्वार्धम् । जीवन्मुक्तानां स्वाभाविकं चरितमेव मुमुक्षुभिः प्रयत्नपूर्वकमनुष्ठेयमिति वदितुं लिङ्प्रत्ययौ । अद्वितीयात्मदर्शनशीलस्य व्यतिरिक्तप्रियाप्रियप्राप्त्ययोगान्न तन्निमित्तौ हर्षविषादावित्यर्थः । अद्वितीयात्मदर्शनमेव विवृणोति-स्थिरबुद्धिः स्थिरा निश्चला संन्यासपूर्वकवेदान्तवाक्यविचारपरिपाकेण सर्वसंशयशून्यत्वेन निर्विचिकित्सा निश्चिता ब्रह्मणि बुद्धिर्यस्य स तथा, लब्धश्रवणमननफल इति यावत् । एतादृशस्य सर्वासंभावनाशून्यत्वेऽपि विपरीतभावनाप्रतिबन्धात्साक्षात्कारो नोदेतीति निदिध्यासनमाह-असंमूढः, निदिध्यासनस्य विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहस्य परिपाकेण विपरीतभावनाख्यसंमोहरहितः । ततः सर्वप्रतिबन्धापगमाद्ब्रह्मविद्ब्रह्मसाक्षात्कारवान् । ततश्च समाधिपरिपाकेण निर्दोषे समे ब्रह्मण्येव स्थितो नान्यत्रेति ब्रह्मणि स्थितो जीवन्मुक्तः स्थितप्रज्ञ इत्यर्थः । एतादृशस्य द्वैतदर्शनाभावात्प्रहर्षोद्वेगौ न भवत इत्युचितमेव । साधकेन तु द्वैतदर्शने विद्यमानेऽपि विषयदोषदर्शनादिना प्रहर्षविषादौ त्याज्यावित्यभिप्रायः ॥ २० ॥


  1. क. ख. ग. घ. च. छ. ज. झ. भ. पूज्यत ।