पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
[अ०५क्ष्लो०१८]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता


श्यन्त इति युक्तं विशेषणम् । ननु कर्मानुष्ठानविक्षेपे सति कथं देहाद्यभिमाननिवृत्तिरिति तत्राऽऽह-तन्निष्ठाः, तस्मिन्नेव ब्रह्माणि सर्वकर्मानुष्ठानविक्षेपानिवृत्त्या निष्ठा स्थितिर्येषां ते तन्निष्ठाः, सर्वकर्मसंन्यासेन तदेकविचारपरा इत्यर्थः । फलरागे सति कथं तत्साधनभूतकर्मत्याग इति तत्राऽऽह-तत्परायणाः, तदेव परमयनं प्राप्तव्यं येषां ते तत्परायणाः, सर्वतो विरक्ता इत्यर्थः । अत्र तद्बुद्धय इत्यनेन साक्षात्कार उक्तः । तदात्मान इत्यनात्माभिमानरूपविपरीतभावनानिवृत्तिफलको निदिध्यासनपरिपाकः, तन्निष्ठा इत्यनेन सर्वकर्मसंन्यासपूर्वकः प्रमाणप्रमेयगतासंभावनानिवृत्तिफलको वेदान्तविचारः श्रवणमननपरिपाकरूपः, तत्परायणा इत्यनेन वैराग्यप्रकर्ष इत्युत्तरोत्तरस्य पूर्वपूर्वहेतुत्वं द्रष्टव्यम् । उक्तविशेषणा यतयो गच्छन्त्यपुनरावृत्तिं पुनर्देहसंबन्धाभावरूपां मुक्तिं प्राप्नुवन्ति । सकृन्मुक्तानामपि पुनर्देहसंबन्धः कुतो न स्यादिति तत्राऽऽह-ज्ञाननिर्धूतकल्मषाः, ज्ञानेन निर्धूतं समूलमुन्मूलितं पुनर्देहसंबन्धकारणं कल्मषं पुण्यपापात्मकं कर्म येषां ते तथा । ज्ञानेनानाद्यज्ञाननिवृत्त्या तत्कार्यकर्मक्षये तन्मूलकं पुनर्देहग्रहणं कथं भवेदिति भावः ॥ १७ ॥

 श्री०टी०-एवंभूतेश्वरोपासकानां फलमाह-तद्बुद्धय इति । तस्मिन्नेव बुद्धिनिश्चयात्मिका येषाम् , तस्मिन्नेवाऽऽत्मा मनो येषाम् , तस्मिन्नेव निष्ठा तात्पर्य येषाम्, तदेव परमयनमाश्रयो येषाम्, ततश्च तत्प्रसादलब्धेनाऽऽत्मज्ञानेन निर्धूतं निरस्तं कल्मषं येषां तेऽपुनरावृत्तिं मुक्तिं यान्ति ॥ १७ ॥

 म० टी०-देहपातादूर्ध्वं विदेहकैवल्यरूपं ज्ञानफलमुक्त्वा प्रारब्धकर्मवशात्सत्यपि देहे जीवन्मुक्तिरूपं तत्फलमाह-

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ॥
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८॥

 विद्या वेदार्थपरिज्ञानं ब्रह्मविद्या वा । विनयो निरहंकारत्वमनौद्धत्यमिति यावत् । ताभ्यां संपन्ने ब्रह्मविदि विनीते च ब्राह्मणे सात्त्विके सर्वोत्तमे, तथा गवि संस्कारहीनायां राजस्यां मध्यमायां, तथा हस्तिनि शुनि श्वपाके चात्यन्ततामसे सर्वाधमेऽपि, सत्त्वादिगुणैस्तज्जैश्च संस्कारैरस्पृष्टमेव समं ब्रह्म द्रष्टुं शीलं येषां ते समदर्शिनः, पण्डिता ज्ञानिनः, यथा गङ्गातोये तडागे सुरायां मूत्रे वा प्रतिबिम्बितस्याऽऽदित्यस्य न तद्गुणदोषसंबन्धस्तथा ब्रह्मणोऽपि चिदाभासद्वारा प्रतिबिम्बितस्य नोपाधिगतगुणदोषसंबन्ध इति प्रतिसंदधानाः सर्वत्र समदृष्टयैव रागद्वेषराहित्येन परमानन्दस्फूर्त्या जीवन्मुक्तिमनुभवन्तीत्यर्थः ॥ १८ ॥

 श्री०टी०-कीदृशास्ते ज्ञानिनो येऽपुनरावृत्तिं गच्छन्तीत्यपेक्षायामाह .