पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०५क्ष्लो०१७]
१७३
श्रीमद्भगवद्गीता।


ज्ञानाभावरूपत्वं व्यावर्तितम् । नह्यमावः किंचिदावृणोति न वा ज्ञानाभावो ज्ञानेन नाश्यते[१] स्वभाव[२]तो नाशरूपत्वात्तस्य । तस्मादहमज्ञो मामन्यं च न जानामीित्यादिसाक्षिप्रत्यक्षसिद्धं भावरूपमेवाज्ञानमिति भगवतो मतम् । विस्तरस्त्वद्वैतसिद्धौ द्रष्टव्यः । येषामिति बहुवचनेनानियमो दर्शितः । तथाच श्रुतिः-" तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तदिदमप्येतार्ह य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति" इत्यादिर्यद्विषयं यदाश्रयमज्ञानं तद्विषयतदाश्रयप्रमाणज्ञानात्तन्निवृत्तिरिति न्यायप्राप्तमनियमं दर्शयति । तत्राज्ञानगतमावरणं द्विविधम् -एक सतोऽप्यसत्त्वापादकमन्यत्तु भातोऽप्यमानापादकम् । तत्राऽऽद्यं परोक्षापरोक्षसाधारणप्रमाणज्ञानमात्रान्निवर्तते । अनुमितेऽपि वह्नयादौ पर्वते वह्निर्नास्तीत्यादिभ्रमादर्शनात् । तथा “ सत्यं ज्ञानमनन्तं ब्रह्मास्ति " इति वाक्यात्परोक्षनिश्चयेऽपि ब्रह्म नास्तीति भ्रमो निवर्तत एव । अस्त्येव ब्रह्म किं तु मम न भातीत्येकं भ्रमजनकं द्वितीयमभानावरणं साक्षात्कारादेव निवर्तते । स च साक्षात्कारो वेदान्तवाक्येनैव जन्यते निर्विकरुपक इत्याद्वैतसिद्धावनुसंधेयम् ॥ १६ ॥

 श्री० टी०-ज्ञानिनस्तु न मुह्यन्तीत्याह-ज्ञानेनेति । आत्मनो भगवतो ज्ञानेन येषां तद्वैषम्योपलम्भकमज्ञानं नाशितं तज्ज्ञानं तेषामज्ञानं नाशयित्वा तत्परं परिपूर्णमीश्वरस्वरूपं प्रकाशयति यथाऽऽदित्यस्तमो निरस्य समस्तं वस्तुजातं प्रकाशयति तद्वत् ॥ १६ ॥

 म०टी०-ज्ञानेन परमात्मतत्त्वप्रकाशे सति-

तद्बुद्धयस्तदात्मानस्तनिष्ठास्तत्परायणाः ॥
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥

 तस्मिज्ञानप्रकाशिते परमात्मतत्वे सच्चिदानन्दघन एव बाह्यसर्वविषयपरित्यागेन साधनपरिपाकात्पर्यवसिता बुद्धिरन्तःकरणवृत्तिः साक्षात्कारलक्षणा येषां ते तद्बुद्धयः सर्वदा निजिसमाधिभाज इत्यर्थः । तत्किं बोद्धारो जीवा बोद्धव्यं ब्रह्मतत्त्वमिति बोद्धृबोद्धव्यलक्षणभेदोऽस्ति नेत्याह-तदात्मानः, तदेव परं ब्रह्माऽऽत्मा येषां ते तथा । बोद्धृबोद्धव्यभावो हि मायाविजृम्भितो न वास्तवाभेदविरोधीति भावः । ननु तदात्मान इति विशेषणं व्यर्थम् । अविद्वद्व्यावर्तकं हि विद्वद्विशेषणम् । अज्ञा अपि हि वस्तुगत्या तदात्मान इति कथं तव्द्यावृत्तिरिति चेत्, न, इतरात्मत्वव्यावृत्तौ तात्पर्यात् । अज्ञा हि अनात्मभूते देहादावात्माभिमानिन इति न तदात्मान इति व्यपदिश्यन्ते । विज्ञास्तु निवृत्तदेहाद्यभिमाना इति विरोधिनिवृत्त्या तदात्मान इति व्यपदि-


  1. घ. च. झ. 'ते स्वाभावना ।
  2. क. ख. ग. छ. ज. अ. वना।