पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०४क्ष्लो०१-२]
१२७
श्रीमद्भगवद्गीता।


अथ चतुर्थोऽध्यायः।

 म० टी०-यद्यपि पूर्वमुपेयत्वेन ज्ञानयोगस्तदुपायत्वेन च कर्मयोग इति द्वौ योगौ कथितौ तथाऽपि " एक सांख्यं च योगं च यः पश्यति स पश्यति " इत्यनया दिशा साध्यसाधनयोः फलैक्यादैक्यमुपचर्य साधनभूतं कर्मयोगं साध्यभूतं च ज्ञानयोगमनेकविधगुणविधानाय स्तौति वंशकथनेन भगवान्-

श्रीभगवानुवाच-
 इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ॥
 विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ १॥

 इममध्यायद्वयेनोक्तं योगं ज्ञाननिष्ठालक्षणं कर्मनिष्ठोपायलम्यं विवस्वते सर्वक्षत्रियवंशबीजभूतायाऽऽदित्याय प्रोक्तवान्प्रकर्षेण सर्वसंदेहोच्छेदादिरूपेणोक्तवानहं भगवान्वासुदेवः सर्वजगत्परिपालकः सर्गादिकाले राज्ञां बलाधानेन तदधीनं सर्वं जगत्पालयितुम् । कथमनेन बलाधानमिति विशेषणेन दर्शयति-अव्ययमव्ययवेदमूलत्वादव्ययमोक्षफलत्वाच न व्येति स्वफलादित्यव्ययमव्यभिचारिफलम् । तथाचैतादृशेन बलाधानं शक्यमिति भावः । स च मम शिष्यो विवस्वान्मनवे वैवस्वताय स्वपुत्राय प्राह । स च मनुरिक्ष्वाकवे स्वपुत्रायाऽऽदिराजायाब्रवीत् । यद्यपि प्रतिमन्वन्तरं स्वायंभुवमन्वादिसाधारणोऽयं भगवदुपदेशस्तथाऽपि सांप्रतिकवैवस्वतमन्वन्तराभिप्रायेणाऽऽदित्यमारभ्य संप्रदायो गणितः ॥ १ ॥

 श्री०टी०-*आविर्भावतिरोभावावाविष्कतुं स्वयं हरिः ।    एएतत्त्वंपदविवेकार्थं कर्मयोगं प्रशंसति ॥ १ ॥

 एवं तावद्ध्यायद्वयेन कर्मयोगोपायो ज्ञानयोगो[१] मोक्षसाधनत्वेनोक्तः । तमेव ब्रह्मार्पणादिगुणविधानेन तत्त्वंपदार्थविवेकादिना च प्रपञ्चयिष्यन्प्रथमं तावत्परम्पराप्राप्तत्वेन स्तुवञ्श्रीभगवानुवाच-इममिति त्रिभिः। अव्ययफलत्वादव्ययमिमं योगं पुराऽहं विवस्वत आदित्याय कथितवान् । स च स्वपुत्राय मनवे श्राद्धदेवाय प्राह । स च मनुः स्वपुत्रायेक्ष्वाकवेऽब्रवीत् ॥ १॥

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः ॥
स कालेनेह महता योगो नष्टः परंतप ॥२॥

"अयं श्लोकः क. पुस्तक एव दृश्यते ।


  1. क. गोपायश्च मो'। ज्ञ. गोपायो मो।