म०टी०-फलितमाह-
एवं बुद्धेः परं बुद्ध्वा संस्तभ्याऽऽत्मानमात्मना । |
इति श्रीमहाभारते शतसाहस्यां संहितायां वैयासि-
क्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसं-
वादे कर्मयोगो नाम तृती-
योऽध्यायः॥ ३॥
" रसोऽप्यस्य परं दृष्ट्वा निवर्तते " इत्यत्र यः परशब्देनोक्तस्तमेवंभूतं पूर्णमात्मानं बुद्धेः परं बुद्ध्वा साक्षात्कृत्य संस्तम्य स्थिरीकृत्याऽऽत्मानं मन आत्मनैतादृशनिश्चयात्मिकया बुद्धया जहि मारय शत्रु सर्वपुरुषार्थशातनं हे महाबाहो। महाबाहोर्हि शत्रुमारणं सुकरमिति योग्यं संबोधनम् । कामरूपं तृष्णारूपं दुरासदं दुःखेनाऽऽसादनीयं दुर्विज्ञेयानेकविशेषमिति यत्नाधिक्याय विशेषणम् ॥ ४३ ॥
उपायः कर्मनिष्ठाऽत्र प्राधान्येनोपसंहता। |
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरल्वतीश्रीपादशिष्यश्रीमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां कर्मयोगो नाम तृतीयोऽध्यायः ॥ ३॥
श्री०टी०-उपसंहरति-~-एवमिति । बुद्धेरेव विषयेन्द्रियादिजन्याः कामादिविक्रिया आत्मा तु निर्विकारस्तत्साक्षीत्येवं बुद्धेः परमात्मानं बुद्ध्वाऽऽत्मनैवंभूतनिश्चयात्मिकया बुद्धयाऽऽत्मानं मनः संस्तभ्य निश्चलं कृत्वा कामरूपं शत्रु जहि मारय दुरासदं दुःखेनाऽऽसादनीयं दुर्विज्ञेयगतिमित्यर्थः ॥ ४३ ॥
स्वधर्मेण यमाराध्य भक्त्या मुक्तिमिता बुधाः । |
इति श्रीसुबोधिन्यां टीकायां श्रीधरस्वामिविरचितायां तृतीयोऽध्यायः ॥ ३ ॥