पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वखण्डे विंशोत्तरीयः३९) अथ राहुभुक्तिमास १२ दिन १८ तस्य फलम् । कुजस्यांतर्गत राहौ स्वोच्चे मूलत्रिकोणगे ॥ शुभयुक्ते शुभे केंद्रलाभत्रिकोणगे ॥ ९ ॥ तत्काले राजसन्मानं गृहभूम्यादि भकृत् ॥ कलत्रपुत्रलाभः स्याद्व्यवसायात्फलाधिकम् ॥ १० ॥ मं गास्नानफलावाप्तिं विदेशगमनं तथा ॥ षष्ठाष्टमव्यये राहाँ पाप- युकेऽथ वीक्षिते ॥ ११ ॥ चौराहित्रणभतिश्च चतुष्पानीवनाश- नम् ॥ वातपित्तक्षयं चैव कारागृहनिवेशनम् ॥ १२ ॥ वनस्थान- गते राही बननाशं महद्भयम् ॥ द्वितीये सप्तमे वापि ह्यपमृत्युभयं महत् ॥ १३ ॥ नागदानं प्रकुर्वीत देवब्राह्मणभोजनम् ॥ मृत्युंज यजपं कुर्यादायुरारोग्यमादिशेत् ॥ १४ ॥ अथ गुरुमुक्तिमास ११ दिन ६ तस्य फलम् । कुजस्यांतर्गते जीवे त्रिकोणे केंद्रगेपि वा ॥ लाभे वा धनर्स- युक्ते तुंगांशे स्वांशगेपि वा ॥ १५ ॥ सत्कीर्ती राजसन्मानं वन- धान्यस्य वृद्धि | गृहे कल्याणसंपत्तिर्दारपुत्रादि लाभकृत् । ॥ १६ ॥ दायेशाकेंद्रराशिस्थे त्रिकोणे लाभगेपि वा ॥ भाग्यक माँधिषैर्युक्ते वाहनाधिपसंयुते ॥ १७ ॥ हाधिपसमायुक्तं शुभ- शे शुभवर्गगे || गृहक्षेत्राभिवृद्धिभ्य गृहे कल्याणसंपदः ॥ १८ ॥ देहारोग्यं महत्कीर्तिगृहे गोकुलसंग्रहः ॥ चतुष्पाज्जीवलाभ: स्या- इथवसायात्फलाधिकम् ॥१९॥ कलत्रपुत्रविभवं राजसन्मानवैभ- वम् ॥ षष्टाष्टमव्यये जीवे नीचे वास्तंगते यदि ॥ २०॥ पाप- हेण संयुक्ते दृष्टे वा दुर्बले यदि || चौराहिनृपभीतिश्च पितरो- गादिसंभवम् ॥ २१ ॥ प्रेतबाथ भृत्यनाशं सोदराणां विनाशन- मा हितीयधूमनाथे तु अपमृत्युज्वरादिकम् ॥ सदोष परिहारामै शिवसाहलकं जपेत् ॥ २२ ॥ ...