पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।

अत्र किं स यदशिक्षत सर्वा
श्चित्रमागमगणाननुवृत्तः ॥
द्वित्रमासपठनादभवद्य
स्तत्र तत्र गुरुणा समविद्यः ॥ १८ ॥
वेदे ब्रह्मसमस्तदङ्गनिचये गाग्र्योपमस्तत्कथा
तात्पर्यार्थविवेचने गुरुसमस्तत्कर्मसंवर्णने ।।
आसीजैमिनिरेव तद्वचनजमोद्धोधकन्दे समो
व्यासेनैव स मूर्तिमानिव नवो वाणीविलासैर्तृतः ॥ १९ ॥
आन्वीक्षिक्यैक्षि तत्रे परिचितिरतुला कापिले काऽपि लेभे
पीतं पातञ्जलाम्भः परमपि विदितं भाट्टंघट्टार्थतत्त्वम् ॥
यत्तेः सौख्यं तदस्यान्तरभवदमलाद्वैतविद्यासुखेऽस्मि
न्कूपे योऽर्थः स तीर्थे मुपयसि वितते हन्त नान्तर्भवेत्किम् ॥२०॥




 यो द्वित्रमासपठनात्तत्र तत्र शास्त्रे गुरुणा तुल्यविद्योऽभवत्स गुरुमनुसृतो यत्सर्वा
नागमगणाञ्शिक्षितवानत्र किं चित्रं न किमपीत्यर्थः । स्वागतावृत्तम् ॥ १८ ॥
वेदे ब्रह्मसमश्चतुर्मुखतुल्य आसीत् । वेदाङ्गसमुदाये शिक्षादौ गाग्र्यसदृश आसी
त् । वेदतदङ्गकथातात्पर्यविवेचने वाचस्पतितुल्य आसीत् । वेदोक्तकर्मसंवर्णने जैमि
निरेवाऽऽसीत् । वेदवचनजन्यतत्त्वज्ञानस्य मूले व्यासेनैव तुल्यः । किंच स मूर्तिमान्न
वनिो व्यास इव वाणीविलासंवृतः संयुत आसीत् । शार्दूलविक्रीडितम् ॥१९॥ [ मू
तति । लोकदृशाऽऽकृतिशालीव सन्नित्यर्थः । एतेन स्वदृष्टया तत्राद्वैतब्रह्मात्मत्वमे
वेति द्योत्यते ] [ शिक्षाद्यङ्गेषु गाग्र्यस्यातिपाटवं पुराणादितो ज्ञेयम् ] ॥ १९ ॥
 अान्वीक्षिकी तर्कविद्या तेनैक्षि सम्यगीक्षिता कापिले तत्रे कपिलप्रणीते सांख्यशास्त्रेऽ
नुपमा काऽपि परिचितिः परिचयो लेभे । कर्मणि लिट् । तेन लब्धेत्यर्थः । पतञ्जलिपणी
तशास्त्रात्मकं जलं तेन पीतं भाट्टस्य भट्टपादप्रणीतस्य वार्तिकस्य घट्टानां प्रघट्टकाना
मर्थस्य तत्त्वं परमपि तेन विदितं परमपीत्यस्य पूर्वेण वा संबन्धः । किंच यतैस्तर्क
शास्त्रादिभिः सुखं तदस्य श्रीशंकरस्यामलं च तदद्वैतं च तस्य या विद्याऽमला चासा
वद्वैतविद्येति वा तस्याः सुखेऽस्मिन्नपरोक्षेऽन्तरभवत् । कूपे यो जलपानादिरूपोऽर्थः
स शोभनजले विस्तृते गङ्गादौ तीर्थे किमन्तर्न भवेदपि तु भवेदेव । तथाच स्मृतिः ।
{{block center|'यावानथै उदपाने सर्वतः संमुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः' इति ।


१ ख. "ट्टपादार्थ'।