श्रीमच्छकरदिग्विजयः । [ सर्गः १६] ततो नदन्तो न्यरुधन्सगर्वा दत्त्वा परीक्षां व्रज धाम देव्याः ॥ बौद्धास्तथा संमथिताः पृथिव्यां बाह्यार्थविज्ञानकशून्यवादैः ॥ ७३ ॥ बाह्यार्थवादो द्विविधस्तदन्तरं वाच्यं विविक्षुर्यदि देवतालयम् ॥ विज्ञानवादस्य च किं विभेदकं भवन्मताङ्गहि ततः परं व्रज ॥ ७४ ॥ सौत्रान्तिको वक्ति हि वेद्यजातं लिङ्गाधिगम्यं त्वितरोऽक्षिगम्यम् । तयोस्तयोर्भङ्गरताऽविशिष्टा भेदः कियान्वेदनवेद्यभागी ॥ ७५ ॥ विज्ञानवादी क्षणिकत्वमेषामङ्गीचकारापि बहुत्वमेषः ।। वेदान्तवादी स्थिरसंविदेकेत्यङ्गीचकारेति महान्विशेषः ॥ ७६ ॥ अथाब्रवीद्दिग्वसनानुसारी रहस्यमेकं वद सर्वविचेत् ॥ यदस्तिकायोत्तरशब्दवाच्यं ताकि मतेऽस्मिन्वद देशिकाऽऽशु ॥ ७७ ॥ सती बहुरूपभागिनी जगन्निदानमिति तु कापिली सिद्धान्तगतिर्वेदान्तपक्षे त्वस्याः ततस्तदनन्तरं तथैव बाह्यार्थविज्ञानकशून्यवादैः पृथिव्यां प्रथिताः सगर्वाः सौत्रा न्तिकवैभाषिकयोगाचार्यमाध्यमिकमतावलम्बिनो बौद्धा: परीक्षां दत्त्वा देव्या धाम व्रजेति नादं कुर्वन्तो निरोधं कृतवन्तः ॥ ७३ ॥ यदि त्वं देवतालयं विविक्षुस्ताहिँ द्विविधो यो बाह्यार्थस्तदन्तरं त्वया वाच्यम् । विज्ञानवादस्य च भवतो वेदान्तवादिनो मताकि विभेदकमिति ब्रूहि ततः परं व्रज ॥७४॥ एवमुक्त भाचार्य उवाच । सौत्रान्तिकः सर्वमपि वेद्यमनुमानगम्यं वक्ति । वैभा षिकस्तु तत्सर्वं प्रत्यक्षगम्यं वक्ति । तयोः सैौत्रान्तिकवैभाषिकयोस्तयोः पदार्थयो क्षणभङ्गरता समाना वेदनवेद्यविषय भेदो लिङ्गवेद्यत्वाक्षिवेद्यत्वरूपो विशेषः किया न्विद्यत इत्यर्थः ।। ७५ ।। विज्ञानवाद्ययं विज्ञानानां क्षणिकत्वं बहुत्वं चाङ्गीचकार । अयं वेदान्तवादी तु स्थिरमेकं ज्ञानमित्यङ्गीचकारेति महान्विशेषः । इन्द्रवज्रा वृत्तम् ॥ ७६ ॥ अथ दिगम्बरानुसारी जगाद । यदि त्वं सर्वज्ञस्तत्कं गुह्य वद । किं तदिति तत्राऽऽह । काय इत्युत्तरशब्दो येपां तर्वाच्यं यदस्मिद्वैनमतेऽस्ति तत्किं हे देशि काऽऽशु वद । उपजातिवृत्तम् ॥ ७७ ॥ 9 घ. 'पिलसि* । २ क. ता ॥ ७२ ॥ ततो नदन्तो न्यरुधन्निति । तत'। ३ घ. "स्तयोरथे'।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६१२
दिखावट