[ सर्गः १६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ६१३ या द्वित्वसंख्या परमाणुनिष्ठा सा कारणं तस्य गतस्य मात्रा ॥ इतीरिते तद्वचनं प्रपूज्य स्वयं न्यवर्तिष्ट कणादलक्ष्मीः ॥ ६७ ॥ तत्रापि नैयायिक आत्तगर्वः कणादपक्षाचरणाक्षपक्षे । मुक्तेर्विशेषं वद सर्वविचेन्नो चेत्प्रतिज्ञां त्यज सर्ववित्वे ॥ ६८ ॥ अत्यन्तनाशे गुणसंगतेर्या स्थिांतर्नभोवत्कणभक्षपक्षे ॥ मुक्तिस्तदीये चरणाक्षपक्षे साऽऽनन्दसंवित्सहिता विमुक्तिः ॥ ६९ ॥ पदार्थभेदः स्फुट एव सिद्धस्तथेश्वरः सर्वजगद्विधाता ।। स ईशवादीत्युदितेऽभिनन्द्य नैयायिकोऽपि न्यवृतन्निरोधात् ॥ ७० ॥ तं कापिलः प्राह च मृलयोनिः किं वा स्वतन्त्रा चिदधिष्ठिता वा ॥ जगन्निदानं वद सर्ववित्वान्नो चेत्प्रवेशास्तव दुर्लभः स्यात् ॥ ७१ ॥ सा विश्वयोनिर्बहुरुपभागिनी स्वयं स्वतश्रा त्रिगुणात्मिका सती ।। इत्येव सिद्धान्तगतिस्तु कापिली वेदान्तपक्षे परतन्त्रता मता ॥ ७२ ।। परमाणुद्वयनिष्ठा या द्वित्वसंख्या मा तस्य द्यणुकगतस्यागुत्वस्य कारणमिति ज्ञात्रा श्रशिांकरण कथिते सति तद्वचनं प्रपूज्य कणादलक्ष्मीः स्वयमेव निवृत्तिं गता । उपजातिवृत्तम् ॥ ६७ ॥ तदनन्तरं तेषु मध्ये गौतममताश्रय भात्तगर्वो नैयायिक आह । कणादपक्षाद्वैतम पक्षे मुक्तेर्विशेषं वद यदि त्वं सर्वज्ञो नो चेत्सर्ववित्वे प्रतिज्ञां त्यज ॥ ६८ ॥ एवमुक्त आचार्य आह । गुणसंबन्धस्यात्यन्तनाशे नभोवद्या स्थितिः सा काद पक्षे मुक्तिः । तदीये गौतमपक्षे तु सा गुणसंगतिरत्यन्तनाशे नमोवांस्त्थतिरानन्दपंवि त्सहिता मुक्तिरित्यर्थः ॥ ६९ ॥ पदार्थभदस्तु स्फुट एव सिद्धः कणादमते सप्त पदार्था गतममतं तु षोडश ते । तथाच कणभुक्सूत्रम्। 'द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः’ तथा गवमीयमपि ‘प्रमाणपमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवि तण्डाहेत्वाभासच्छलजातिानग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः इति । सर्वजग न्निमित्तकारणभूत ईश्वरस्तथा कणादपक्षवदेवत्युदिते सति स ईशवादी नैयायिकोऽपि नरावनान् यवृतनिवृत्तः ॥ ७० ॥ ततस्तं सांख्यः पौह मूलप्रकृतिः किं स्वतश्रा जगत्कारणमुत चिदविष्ठितfत पर्व ज्ञत्वात्वं वद । नो चेत्प्रवेशास्तव दुर्लभः स्यात् ॥ ७१ ॥ एवमुक्त आचार्य आह । सा विश्वयोनिः सत्वरजस्तमोभिधगुणत्रयात्मिका स्वतत्रा ७७
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६११
दिखावट