य, ६०६ [ सर्गः १६ ] यांतिवर्य चिकित्सितुं न शक्या परकृत्याजनिता हि ते रुगेषा ॥ इति तं समुदीर्य योगिवर्य विबुधैो तौ प्रतिजग्मतुर्यथेतम् ॥ ३० ॥ तदनु स्वनुरोर्गदापनुत्यै परमञ्त्रं तु जजाप जातमन्युः ॥ मुहुरार्यपदेन वार्यमाणोऽप्यरिवर्गेऽप्यनुकम्पिनाऽब्जपादः ॥ ३१ ॥ अमुनैव ततो गदेन नीचः प्रतियातेन हतो ममार गुप्तः ॥ मतिपूर्वकृतो महानुभावेष्वनयः कस्य भवेत्सुखोपलैब्ध्यै ॥ ३२ ॥ स्वस्थः सोऽयं ब्रह्म सायं कदाचिश्चद्यायन्गङ्गाप्रसङ्गाद्रवातैः ॥ आगच्छन्तं सैकते प्रत्यगच्छद्योगीशानं गौडपादाभिधानम् ॥ ३३ ॥ पाणौ फुलुश्चेतपङ्गेरुहश्रीमैत्रीपात्रीभूतभासा घटेन । आराद्राजत्कैरवानन्दसंध्यारागारक्ताम्भोदलीलां दधानम् ॥३४॥ उपविश्य यदूचवतुस्तदाह । भो यतिवर्येषा ते रुम्रोगश्चिकित्सितुं न शक्या हि यस्मात्परकृत्ययोत्पादितेति तं योगिवर्य समुदीर्य तौ देवै यथागतं प्रतिज मत || ३० ॥ तदनन्तरं जातकोपः शत्रुवर्गेऽप्यनुकम्पिनाऽऽर्यपादेनाऽऽचार्येण मुहुर्वार्यमाणोऽपि पद्मपादः स्वगुरो रोगस्य नाशाय परं मत्रं तु जजाप ॥ ३१ ॥[ परेति । परश्चासौ मश्रश्च परमश्रः सर्वमम्रराजत्वेनोत्कटः प्रणवस्तमित्यर्थः । ‘तारमेव जपेद्भिक्षुर्यथाकालम तन्द्रितः । मश्रान्तरे नाधिकारः श्रूयते स्मर्यते यतेः' इति वचनाद्यतीनां मत्रान्तरेऽन धिकारातू ] ॥ ३१ ॥ ततः किं वृत्तमित्याकाङ्क्षायामाह । अमुनैवेति । प्रतियातेम प्रतिमापेन ॥३२॥ [ गुप्तोऽभिनवगुप्तः शाक्त इत्यर्थः ][ अनयोऽपराधः] ।। ३२॥ स्वस्थः सोऽयं श्रीशैकराचार्यः सैकते सायंकाले ब्रह्म ध्यायन्सन्गङ्गापूरेणाद्वैवायुभि सहाऽऽगच्छन्तं योगीशं गौडपादसंज्ञ प्रत्यबुध्यत । शालिनी वृत्तम् ॥ ३३ ॥ [ स्वस्थः सद्यो निरस्तभगंदरारूयरोगः ] [ सैकते सिकतामये गङ्गातट एवावलोक्येति शेषः । पत्यगच्छदभिमुखो जगामेत्यन्वयः ] ॥ ३३ ॥ तमेव वर्णयति । पाणौ इस्ते प्रफुलितस्य धेतकमलस्य या श्रीस्तया या मैत्री तस्याः पात्रीभूता भाः कान्तिर्यस्य तेन घटेन कमण्डलुनाऽऽराद्राजत्कैरवस्य सितपङ्क जस्याऽऽनन्दो यस्य तस्य संध्यारागेणाऽऽसमन्ताद्रक्तस्य पयोदस्य च लीलां दधा नम् ॥ ३४ ॥ १ क. 'वेऽप्यन' । २ क. 'लब्धौ ॥ ३२ ॥ स्व' । ३ ग. 'यं शं' ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/६०४
दिखावट