सर्गः १६] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ६०९ जनपदो विरलो गदहारकैर्बहुलरुग्णजनः प्रकृतेरतः ॥ मृगयते भवतो भवतां गृहे गदिजनः सहितुं गदमक्षमः ॥ २४ ॥ पितृकृता जनिरस्य शरीरिणः समवनं गदहारिषु तिष्ठति । जनितमप्यफलं भिषजं विना भिषगसौ हरिरेव तनूभृतः ॥ २५ ॥ यदुदितं भवता वितथं न तत्तदपि न क्षमते ब्रजितुं मनः ॥ मुरभुवं प्रविहाय मनुष्यगां ब्रजितुमिच्छति कोऽत्र नरः सुधीः ॥२६॥ इति निगद्य ययुर्भिषजां गणा विमनसः पटवोऽपि निजान्गृहान् । अथ मुनिर्विजहन्ममतां तनौ गुरुवरो गुरुदुःखमसोढ सः ॥ २७ ॥ प्रथितैरवनौ परःसहसैरगदकारचयैरथाचिकित्स्ये ।। प्रबले सति हा भगंद्राख्ये स्मरति स्म स्मरशासनं मुनीन्द्रः ॥ २८ ॥ स्मरशासनशासनान्नियुक्तो द्विजवेषं प्रविधाय भूमिमाप्तौ ॥ उपसेदतुरचिनौ च देवौ मुभुजौ साञ्जनलोचनौ मुपुस्तौ ॥ २९ ॥ यतोऽक्षतशासनः । यद्वा यस्मादश्ववत्रपतिश्चलमानसस्ततोऽसावन्यं वैद्य विदधीत ।। ॥ २३ ॥ [ तुरगवदिति चलत्वमात्रे निदर्शनम् ] ॥ २३ ॥ किंच रोगहारकॅर्विरलो रहितो जनपदः स्वभावादेव बहुलं रुग्णा जना यस्मिन्नतो रोगिजनो रोगं सहितुमसमर्थो भवतां गृहे भवतो विचिनुते ॥ २४ ॥ जनिजन्मावनं पालनं तस्मादसौ वैद्य शरीरभृतो विष्णुरेव तद्वदुपासनीय इत्यर्थः ॥ २५ ।॥ [ जनितमपीति । शरीरामित्यार्थिकम् ] ।। २५ ॥ एवमुक्ता भिषज ऊचुः । भवता यत्कथितं तन्मिथ्या न भवति तथाऽपिगन्तुं मनो न क्षमते यतो देवभूमिं प्रविहाय मनुष्यभूमिं गन्तुं सुधीनेररोऽत्र जगति क इच्छति न कोऽपीत्यर्थः ॥ २६ ॥ [ मुरभुवमिति । अमरावतीमित्यर्थः ] ॥ २६ ॥ इति निगद्येवमुक्त्वा ॥ २७ ॥ भूमं खेदे । पथितै: सहस्रादप्यधिकैरोपधकारसमूहैर्भगंदराख्ये प्रबले । हति अचिकित्स्ये सतिं मुनीन्द्रः श्रीशंकराचार्यः कामशासनं महादेवं स्मरति स्म । वसन्त मालिका वृत्तम् ॥ २८ ॥ स्मृतमहादेवाज्ञया नियुक्तौ देवावश्विनीकुमारौ द्विजवेषं प्रविधाय भूमिं प्राप्तौ सुभुजौ साञ्जनलोचनौ सुपुस्तकयुक्तौ मुनीन्द्रसमीपे विविशतुः ॥ २९ ॥ ! सुभुजावित्यादि बह्मचारिवेषत्वादेव ] ॥ २९ ॥
- घ. रुग्णो । २ घा. जनो । ३ घ. 'ति परो मु' ।