सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १५] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । १८१ अथ तस्य यतिः समीक्ष्य दाक्ष्यं निजपक्षाव्जशरजडाब्जभूतम् ॥ बहुधाऽऽक्षिपदस्य पक्षमाय विबुधानां पुरतोऽप्रभातकक्ष्यम् ॥ ९२ ॥ अथ भास्करवित्स्वपक्षगुप्यै विधुतो वाग्मिवरः प्रगल्भयुक्तया । श्रुतिशीर्षवच:प्रकाश्यमेवं कविरद्वैतमपाकरिष्णुरुचे ।। ९३ ।। प्रशमिंस्त्वदुदीरितं न युक्तं प्रकृतिजविपरात्मभेदिकेति । न भिनत्ति हि जीवगेशगा वो भयभावस्य तदुत्तरोद्रवत्वात् ॥ ९४ ॥ मुनिरेवमिहोत्तरं बभाषे मुकुरो वा प्रतिबिम्बबिम्बभेदी । कथमीरय वक्त्रमात्रगश्चेचितिमात्राश्रिदियं तथेति तुल्यम् ॥ ९५ ।। चितिमात्रगतप्रकृत्युपाधेर्जहतो बिम्बपरात्मपक्षपातम् ।। प्रतिबिम्बितजीवपक्षपातो मुकुरस्येव विरुध्यते न जातु ॥ ९६ ॥ अथ यतिस्तस्य दाक्ष्यं समीक्ष्य स्वपक्षचन्द्रस्य शरत्कालीनकमलभूतम् । ‘अब्जो धन्वन्तरौ चन्द्र निचुल शङ्खपद्मयाः' इति विश्वप्रकाश । तथाच चिदब्जस्य चन्द्र स्याग्रे यथा जडाब्जं कमलं मुकुलितं भवति तथाभतमस्य पक्षमार्य: श्रीशंकरो बह धाऽऽक्षिपत् । पक्ष विशिनष्टि । सुपण्डितानामयेऽपभाताः कक्ष्या: कोट्यो यस्मि स्तम् ॥ ९२ ॥ [ दाक्ष्यं दक्षत्वम् ] || ९२ ।। अथ भास्करो विद्वान्वाग्मिवरः प्रकम्पितः पन्चपक्षपालनाय श्रुतिशीर्षवचोभि प्रकाश्यमद्वैतं प्रगल्भया यक्त्याऽपाकरिष्णुरेवमवाच ॥ ९३ ॥ [ एवं वक्ष्यमा णाम् ] || ९३ ॥ हे प्रशामिन्पकृतिजविपरात्मनोभेदिकेति तदुक्तं न युक्तं हि यस्मात्सा जीवगा परा त्मगा वा न भिनत्ति । तत्र हेतुरुभयभावस्य जीवभावस्येशभावस्य च प्रकृत्युत्तरोद्भ वत्वात् ॥ ९४ ॥ [ उभयेति । जीवत्वपरमात्मत्वस्येत्यथे । तदिति । *जीवेशावाभा सेन करोति माया चाविद्या च स्वयमेव भवति' इति श्रुतेः प्रकृत्युत्तरभावित्वादिति यावत् ] ॥ ९४ ॥ इत्युक्तो मुनिरेवमिहोत्तरमुवाच । आदर्शः किल प्रतिबिम्बबिम्बभेदी कथं किं मतिबिम्बग उत बिम्बग इतरय मुखमात्रगश्चेन्मुकुरस्तद्वेदी तर्हि चिन्मात्राश्रितेयं मकृतिरपि बिम्बप्रतिबिम्बभेदिकेति तुल्यमित्यर्थः ॥ ९५ ।। नन्वेवं तर्हि चिन्मात्र एव दुःखित्वादिकं कुतो नाऽऽपादयति किमिति जीव एवाऽऽपादयतीति चेत्तत्राऽऽह । चितिमात्रगतपकृत्युपावेर्विम्बभूपरात्मपक्षपातं त्यजतः प्रतिबिम्बभूतजीवात्मपक्षपातो दर्पणस्येव कदाचिदपि न विरुध्यते ॥ ९६ । । ७३ १ गा. जहृतः ।