श्रीमच्छंकरदिग्विजयः । | धुवमेष न शुश्रुवानुदन्तं मम दुर्वादिवचस्ततीर्नुदन्तम् । परकीर्तिबिसाङ्करानदन्तं विदुषां मूर्धसु नानटत्पदं तम् ॥ ८६ ॥ मम वल्गति सूक्तिगुम्फवृन्दे कणभुग्जल्पितमल्पतामुपैति ।। कपिलस्य पलायते प्रलापः सुधियां कैव कथाऽधुनातनानाम् ॥ ८७ ॥ इति वादिनमब्रवीत्सनन्दः कुशलोऽथैनमविज्ञ माऽवमंस्थाः ॥ न हि दारितभूधरोऽपि टङ्कः प्रभवेद्वज्रमणिप्रभेदनाय ॥ ८८ ॥ स तमेवमुदीर्य तीर्थकीर्तेरुपकण्ठं प्रतिपद्य सद्विदप्रयः ॥ सकलं तदवोचदानुपूव्य स महात्माऽपि यतीशमाससाद ॥ ८९ ॥ अथ भास्करमस्करिमवीरौ बहुधाक्षेपसमर्थनप्रवीणौ ॥ बहुभिर्वचनैरुदारवृतैव्र्यदधातां विजयैषिणौ विवादम् ॥ ९० ॥ अनयोरतिचित्रशब्दशय्यां दधतोर्तुर्नयभेदशक्तयुक्तयोः । पटुवादमृधेऽन्तरं तटस्थाः श्रुतवन्तोऽपि न किंचनान्वविन्दन् ॥ ९१ ॥ एष तव गुरुर्मम तं वृत्तान्तं न शुश्रुवान् । उदन्तं विशिनष्टि । दुर्वादिवचस्ततीर्नु दन्तं परकीर्तिलक्षणबिसाङ्करान्भक्षयन्तं विदुषां शिरःसु नानटदतिशयेन ऋत्यत्पदं यस्य ॥ ८६ ॥ [ नुदन्तं खण्डयन्तम् ] ॥ ८६ ॥ मम सूक्तिगुम्फवृन्दे सूक्तिरचनासमुदाये वल्गति सति कणादभाषितमल्पतां प्राम्रोति कपिलस्य तु पलापः पलायते तथाचाधुनातनानां सुधियां कैव कथा ॥ ८७ ॥ इति वादिनमेनं भट्टभास्करमथानन्तरं कुशलः सनन्दनोऽब्रवीत् । हेऽविज्ञ माऽव मस्था माऽवजानंह्यवज्ञां मा कुरु यस्माद्दारितपवेताऽपि टङ्क। ग्रावदारणा वत्रमाणभद नाय समर्थो न भवति ॥ ८८ ॥ स पद्मपादस्तं भट्टभास्करमेवमुदीर्य तीर्थकीर्तर्गुरोः समीपं प्राप्य सद्विदामयस्तत्स वैमानुपूव्यो प्रोक्तवान् । स महात्मा भट्टभास्कररोऽपि यतश्शं माप ॥ ८९ ॥ [ तीर्थेति । तीर्थवत्प्रयागादितीर्थराजवद्विश्धपावनकत्र कीर्तियस्र्यतस्य भगवत्पाद स्येत्यर्थः ] ८९ अथानन्तरं भास्करयतीशप्रवीरौ बहुधाक्षेपसमर्थनयोरतिकुशलैौ विजयैषिणौ बहु भिरुदारपथैर्वचनैर्विवादं कृतवन्तौ ॥ ९० ॥ अतिचित्रशब्दशय्यां तथाभूतपदार्नुगुण्यविश्रान्ति दधतोर्तुर्युक्तिभेदे शक्ता युक्तयो ययोस्तयोरनयोः पटुवादसंख्ये तटस्थाः श्रुतवन्तोऽपि किंचिदन्तरं न प्राप्त वन्तः || ९१ ।। [ सर्गः १५] १ क. 'र्ममोदन्तं वृ' । २ क. 'नुशान्ति ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५७८
दिखावट