सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७० श्रीमच्छंकरदिग्विजयः । तदनन्तरमागमान्तविद्यां प्रणतेभ्यः प्रतिपादयन्तमेनम् ।। हरदत्तसमाह्वयोऽधिगम्य स्वगुरुं संगिरते स्म नीलकण्ठम्॥३३॥ भगवन्निह शंकराभिधानो यतिरागत्य जिगीषुरार्यपादान् ॥ स्ववशीकृतभट्टमण्डनादिः सह शिष्यैर्गिरिशालये समास्ते ॥ ३४ ॥ इति तद्वचनं निशम्य सम्यग्ग्रथितानेकनिबन्धरत्नहारः । शिवतत्परसूत्रभाष्यकर्ता प्रहसन्वाचमुवाच शैववर्यः ॥ ३५ ॥ सरितां पतिमेष शोषयेद्वा सवितारं वियतः प्रपातयेद्वा । पटवत्सुरवत्र्म वेष्टयेद्वा विजये नैव तथाऽपि मे समर्थः ॥ ३६ ॥ परपक्षतमिस्रचञ्चदर्कर्मम तर्कर्बहुधा विशीर्यमाणम् ॥ अधुनैव मतं निजं स पश्यत्विांत जल्पन्नरगादनल्पकोपः ॥ ३७ ॥ सितभूतितरङ्गिताखिलाडैः स्फुटरुद्राक्षकलापकम्रकण्ठः ।। परिवीतमधीतशैवशात्रैर्मुनिरायान्तममुं ददर्श शिष्यैः ॥ ३८ ॥ [ सर्गः १५] स्तवसत्तमरचनानन्तरं वेदान्तविद्यां नम्रीभूतेभ्यो विनेयेभ्यः प्रतिपाद्यन्तमेनं श्रीशंकरं हरदत्तसमारूयोऽधिगम्य स्वगुरुं नीलकण्ठं प्रोक्तवान् ॥ ३३ ॥ यत्प्रोक्तवांस्तदुदाहरति । हे भगवञ्शंकरराख्यो यतिरार्यपादान्भवतो विजिगीषुरि हाऽऽगत्य शिष्यैः सह शिवालये समस्ते । तस्यांपेक्षणीयत्वं वारयति । स्ववशीकृता भट्टपादमण्डनमिश्रादयो येन सः ॥ ३४ ॥ इति तस्य हरदत्तस्य वचनं श्रुत्वा सम्यग्ग्रथितोऽनेकनिबन्धलक्षणै रत्नैहरो येन पुनश्च शिवतत्परस्य ‘अथातो ब्रह्मजिज्ञासा' इत्यादिसूत्राणां भाष्यस्य कर्ता स शैववर्य महसन्वाचमुवाच ॥ ३५ ॥ वाचमेव सगर्वामुदाहरति । यद्येष यतिः समुद्रं शोषयेत् । यदि वा गगनात्स वितारं सूर्ये प्रपातयेन् । यदि वा पटवदाकाशं वेष्टयेत्तथाऽपि मे विजये समर्थो नैव भवेत् ॥ ३६ ॥ परपक्षलक्षणान्धकाराणां निवारणे स्फुरद्भिः सूयैर्मम तकॅरधुनैवानेकधा विशीर्थमाणं निजं मतं स यातिः पश्यत्विति जल्पन्ननल्पकोपो नीलकण्ठो निर्गतवान् ॥ ३७ ॥ श्वेतभृत्या व्याप्तान्यङ्गानि येषां पुनश्च स्फुटरुद्राक्षाणां समृहेन कम्राः कमनीया कण्ठा येषां तथाभूतैरधीतशैवशाखैः शिष्यैः परिवेष्टितमायान्तममुं नीलकण्ठं मुनिः श्रीशांकरो ददर्श ॥ ३८ ॥ १ घ. श्रीशंकराचार्यो ।