[ सर्गः १५ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । पतिराडध तेषु तेषु देशेष्विति पाषण्डपरान्द्विजान्विमश्न् ॥ अपरान्तमहार्णवोपकण्ठं प्रतिपेदे प्रतिवादिदर्पहन्ता ॥ २९ ॥ विललास चलत्तरङ्गहस्तैर्नदराजोऽभिनयन्निगूढमर्थम् ॥ अवधीरितदुन्दुभिस्वनेन प्रतिवादीव महान्महारवेण ॥ ३० ॥ बहुलभ्रमवानयं जडात्मा सुमनोभिर्मथितश्च पूर्वमेव ॥ इति सिन्धुमुपेक्ष्य स क्षमावानिव गोकर्णमुदारधीः प्रतस्थे ॥ ३१ ॥ अवगाह्य सरित्पतिं स तत्र मियमासाद्य तुषारशैलपुत्र्याः ॥ स्तवसत्तममदुतार्थचित्रं रचयामास भुजंगवृत्तरम्यम् ॥ ३२ ॥ ५६९ शिष्यतां यातास्तैतो वेतालसेवकाः ॥ चिताभस्मानुलिप्ताङ्गा भूतसेवारतास्तथा ॥४६॥ बभाषिरे गुरुं नत्वा स्वामिन्भूताद्युपासकाः ॥ सर्वलोकवशीकारे समर्था इति तद्वच ॥ ४७ ॥ श्रुत्वोवाच यतीशास्तान्न युक्तं भवतां मतम् ॥ ब्राह्मणानां न संप्रोक्ता यतो भूताद्युपासना ॥ ४८ ॥ अपसर्पन्तु ते भूता ये भूत भूमिसंस्थिताः ॥ ये भूता विघ्रकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ ४९ ॥ इत्यादिवचनात्तस्माद्रष्टाचारं विहाय तम् ॥ स्ववर्णोचितकर्माणि कुरुताद्वैतमाश्रिताः ॥ ३५० ॥ स्वकर्महीना न गि लभन्ते श्रुत्वेदमाचार्यवरं मैणम्य । स्वकर्मशीलाः किल पञ्चपूजापरायणाः शिष्यवरा बभूव: || ३५१ || २८ ॥ तदेतत्सर्वं संक्षिप्याऽऽह । यतिराडिति । अपरान्तमहार्णवोपकण्ठं पश्चिमसमु द्रसमीपम् ॥ २९ ॥ चलद्भिस्तरङ्गात्मकैर्हस्तैस्तथाऽवधीरितास्तरस्कृतो दुन्दुभिस्वनो येन तथाभूतेन महता शब्देन निगूढमर्थमभिनयन्प्रकटयन्महान्नद्राजः समुद्रः प्रतिवादिवद्विललास विशुशुभे ।। ३० ॥ आचायैस्तर्हि किमित्युपेक्षित इत्याशङ्कयाऽऽह । बहुलेति । प्रतिवादितुल्योऽपिः बहुलावर्तलक्षणभ्रमवाञ्जडात्मा पुनश्च देवलक्षणैः संस्कृतचितैः पण्डितैः पुंरैव मथि तश्धेति हेतोः समुद्रमुपेक्ष्य स श्रशिंकराचार्यः क्षमावानिवोदारधीगकर्ण पतस्थे । इवशब्द उत्प्रेक्षार्थकः ॥ ३१ ॥ [ जडेति । डलयोः सावण्यजलरूपः। पक्षे जडबु द्विरित्यर्थः ] ॥ ३१ ॥ स श्रीशंकरस्तत्र सरित्पतिं समुद्रमवगाह्य हिमाचलसुतायाः पार्वत्याः पियं महा देवमासाद्य ‘चतुर्भिर्यकॉरैर्भुजंगमयातं’ इत्युक्तलक्षणभुजगप्रयातवृतै रम्यमदुतैरर्थवैिचित्रं स्तवसत्तमं रचयामास ।। ३२ ।। १ घ. ‘स्तथा वे' । २ क. ग, 'ता भुवि सं' । ३ घ. प्रसाद्य ।
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५६७
दिखावट