पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छकरदिग्विजयः । रजसा मृजसीश सत्त्ववृत्ति त्रिजगद्रक्षांसि तामसः क्षिणोषि ।। बहधा परिकीत्र्यसे च स त्वं विधिवैकुण्ठशिवाभिधाभिरेकः ॥ ५१ ॥ विविधेषु जलाशयेषु सोऽयं सवितेव प्रतिबिम्बित स्वभावः ।। बहुरुपमिदं प्रविश्य विश्वं स्वयमेकोऽपि भवान्विभात्यनेकः ॥ ५२ ॥ इति देवमभिष्टुवन्वशिष्ट स्तुतितोऽसौ मुरसद्मसंनिविष्टः । चिरकालवियोगदीनांचत्तै: शिरसा शिष्यगणैरथो ववन्दे ॥ ५३ ।। सदथं शिष्यगणेषु सान्वितेपु ॥ दजहद्भांदकं स पपाद: ॥ ५४ ॥ [ सर्गः १४] प्रयोजनेच्छा नास्ति लोकवतु लीला कैवल्य मित न्यायात् ॥ १५० ।॥ [ सदस त्वेतिं । द्वन्द्वान्ते श्रयमाणं पदं प्रत्येक संबध्यत इति न्यायात्मत्वासत्वाभ्यां शून्य येति यावत् ] ।। १५० ॥ ननु ब्रह्मा सवै जगत्कुरुत इति चेत्तत्राऽऽह । हे ईशा त्वमेव ब्रह्मा पन्रजसा सृजासि सत्त्ववृत्तिर्विष्णुः संस्तमसा शिवः सन् । अतश्च स त्वमेवैको विध्यादिसंज्ञा भिर्बहुधा परिकीर्थसे ॥ ५१ ॥ न केवलमेतावदेवापि तु स्वयमेकोऽपि भवान्बहुरूपामिदं विश्धं प्रविश्यानेको विभा तीति सदृष्टान्तमाह । विविधेषु जलाशयेषु यथा सूर्यः प्रतिबिम्बितस्वभावस्तथाऽऽ शापेषु प्रतिबिम्बितस्वभावः सोऽयं भवानित्यन्वयः । तथाच श्रुतिः । ‘यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुपैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देव क्षेत्रेष्ववमजोऽयमात्मा' इति ॥ ५२ ॥ ववन्द इति कर्मणि लिट् । ते तं शिरसा ववान्दिर इत्यर्थः ।। ५३ । [ असैौ श्रीशंकराचार्यः ] ।। ५३ ।। कुशलिनो भवन्त इति कुशलप्रश्नपूर्वकं सद्यं यथा स्यात्तथा सान्त्वितेषु शिष्यगणेषु