पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमच्छंकरदिग्विजयः । संतोषयेद्वेदविदं द्विजं यः संतोषयत्येष स सर्वदेवान् । तद्वेदविप्रे निवसन्ति देवा इति स्म साक्षाच्छतिरेव वक्ति ॥ ९९ ॥ स्वधर्मनिष्ठा विदिताखिलार्था जितेन्द्रियाः सेवितसर्वतीर्थाः ।। परोपकारव्रतिनो महान्त आयान्ति सर्वे गृहिणो गृहाय ॥ १०० ॥ गृही गृहस्थोऽपि तदश्रुते फलं यत्तीर्थसेवाभिरवाप्यते जनैः । तत्तस्य तीर्थ गृहमेव कीर्तितं धनी वदान्य: प्रवसेन्न कश्चन ॥ १ ॥ बहि:स्थिता गोमृगपक्षिमुख्याः । जीवन्ति जीवाः सकलोपजीव्य स्तस्माद्वही सर्ववरो मतो मे ॥ २ ॥ शरीरमूलं पुरुषार्थसाधनं तचान्नमूलं श्रुतितोऽवगम्यते । तच्चान्नमस्माकममी संस्थितं सर्व फलं गेहपतिद्रुमाश्रयम् ॥ ३ ॥ [ सर्गः १४ ! किंच यो वेदविदं विपं संतोषयेत्स एष सर्वान्देवान्संतापयति । तद्वेदविप्रे वेदविदि ब्राह्मणे ॥ ९९ ॥ ननु तथाऽपि स्वयमेव प्रवासं कृत्वा पुण्यं कुतो न संपादनीयमिति चेत्तत्राऽऽह स्वेति द्वाभ्याम् ।। १०० ।। तत्तस्मात्तस्य गृहमेव तीर्थ कीर्तितमतो धनी वदान्यो दाता स्यान्न तु कश्चनापि प्रवासं कुर्यादित्यर्थः ।। १ ।। गृहिणः सर्वश्रेष्ठत्वं पुनरुपपादयति । अन्तःस्थिता इति ॥ २ ॥ किंच शरीरं मृलं यस्य तथाविधं पुरुषार्थसाधनं तच शरीरमन्त्रं मृलं यस्य तत्तथाभूतम् । १ ख. ग. घ. 'स्थित मृ' । २ ख. ग. घ. 'स्थितं गो' । ३ ख. ग. घ स्थितमिति ।