पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/५०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सगः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । उचैः शास्त्र भाषमाणोऽपि भिक्षु स्तारं मन्त्रं संजपन्वा यतात्मा ॥ मध्येघस्त्रं जाठराग्रौ प्रदीप्त दण्डी नित्यं गेहिनो गेहमेति ॥ ९५ ।। यदन्नदानेन निजं शरीरं पुष्पगस्तपा5य कुरुत मुतात्रम् । कर्तुस्तदर्ध ददतोऽन्नमर्ध मिति स्मृतिः संववृतेऽनवद्या ॥ ९६ ।। पुण्यं गृहस्थेन विचक्षणेन गृहेषु संचेतुमलं प्रयासात् ॥ विनाऽपि तत्कर्तृनिषेवणेन तीर्थादिसेवा बहुदुःस्वसाध्या ॥ ९७ ॥ गृही धनी धन्यतरो मतो मे तस्योपजीवन्ति धनं हि सर्वे ॥ चौर्येण कश्चित्प्रणयेन कश्चि द्दानेन कश्चिद्धलतोऽपि कश्चित् ॥ ९८ ॥ अथ यतेस्तामाह । उचैरिति । तारं प्रणवं घस्रस्य दिनस्य मध्ये । इन्द्रवत्रा वृत्तम् ॥ ९५ ॥ ५०९ वानप्रस्थस्य तामाह । यस्यान्नदानेन निजं शरीरं पुष्णन्नयं तपस्वी सुतीत्रं तपः कुरुते तपः कर्तुस्तस्य तपसोऽधं तस्यात्रं ददतोऽर्वमिति स्मृतिः प्रववृते । उपजाति वृत्तम् ॥ ९६ ॥ [ संववृते संपवृत्ताऽस्तीत्यर्थः ] ॥ ९६ ।। नन्वेवमपि गृहव्ययस्य गृहस्थस्य तीर्थादिसेवाजन्यं पुण्यं तु दुर्लभमेवेति चेत्त त्राऽऽह । विचक्षणेन गृहस्थेन पयासाद्विनाऽपि प्रयासकर्तृनिषेवणेन पुण्यं संचेतुमलं शक्यते । तीर्थादिसेवायाः प्रयाससाध्यत्वं प्रसिद्धमेवेत्याह । तीर्थादीति ॥ ९७ ॥ न केवलं ब्रह्मचार्यादय एव गृहस्थमुपजीवन्त्यपि तु सवे एवेत्याह । गृहीति । हि यस्मात् ॥ ९८ ॥ [ बलं परचक्रम् ] || ९८ ॥ १ ख. 'श्चिच्छल'।