पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १४ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ ४९१ यदापदपदं सदा यतिवर स्थितं वस्तु त न्मतं भज मितंपचान्मनसि मा कृथाः प्राकृतान् । कषायकलुषाशयक्षतिविनिवृतः सन्मत मुखी चर मुखे चिरास्फुरति संततानन्दता ॥ २७ ॥ इत्थं गुरोर्मुस्वगुहोदितवाक्सुधां ता मापीय हृष्टहृदय: स मुनिः प्रतस्थे । प्रस्थाप्य तं गुरुवरोऽथ सुरेश्वराचै कालं कियन्तमनयत्सह शृङ्गकुधे ॥ २८ ॥ अधिगम्य तदाऽऽत्मयोगशाक्त रनुभावेन निवेद्य चाऽऽश्रवेभ्य: ॥ अवलम्बिततारकापथोऽसा वचिरादन्तिकमाससाद मातुः ॥ २९ ॥ तत्राऽऽतुररां मातरमैक्षतासौ ननाम तस्याश्चरणौ कृतात्मा । सा चैनमुद्वीक्ष्य शरीरतापं जहौ निदाघार्त इवाम्बुदेन ॥ ३० ॥ उपदेशसारमाह । हे यतिवराऽऽपदामपदं सर्वानर्थशून्यं वस्तु यस्मिन्स्थितं तन्मतं सदा भज । मितंपचवान्कदर्यान्पामरान्मनासेि मा कृथाः । पुनश्च कषायेण कलुष स्याऽऽशयस्य क्षत्या विशेषेण निवृतः सन्मतं यस्य तथाभूतः सुखी चर । यत: सुखे चिरात्संततानन्दता स्फुरति । पृथ्वी वृत्तम् ।। २७ । [ कषायेति । कषायेण प्राकृतः तजनचिन्तनजन्यरज आदिदोषे विशेषेण यत्कलुषं ‘कलुषं वृजिन' इत्यमरात्पापं तस्य याऽऽशयादन्तःकरणात्क्षतिध्र्वस्तिस्तया विनिवृतः संप्रहृष्टोऽत एव सन्मतः सतां मान्यः सन्सुखी चरेति संबन्धः ] [ संततानन्दतापिरादखण्डं स्फुरति स्वात्मत्वेन भातीत्यथेः ] ।। २७ ।। इत्थं गुरोर्मुखलक्षणाया गुहाया उदितां वाक्सुधां तामापीय ऋष्टहृदयः स मुनिः पद्मपादः पतस्थे । तं पस्थाप्य गुरुवरोऽथानन्तरं सुरेश्वराचैः सह कियन्तं कालमृ प्यशृङ्गाख्ये भूधरेऽनयत् । वसन्ततिलका वृत्तम् ॥ २८ ॥ तदाऽऽत्मयोगशात्तेरनुभावेन मातुवृत्तान्तमविगम्याऽऽश्रवेभ्यो वचनस्थितेभ्यो यतिभ्यो विनिवेद्य तं वृत्तान्तं विज्ञाप्य चावलम्बितस्तारकामाग गगनमार्गे येनासँी श्राशंकरोऽचिरान्मातुः समीपमाससाद । मालभाiरण वृत्तम् ॥ २९ ॥ निदाघेन ग्रीष्मसंतापेनाऽऽर्तः संतप्तः । आख्यानकी वृत्तम् ॥ ३० ॥ [कृतेति ।