पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ श्रीमच्छकरदिग्विजपः । सत्तीर्थसेवा मनसः प्रसादिनी देशस्य वीक्षा मनसः कुतूहलम् ॥ क्षिणोत्यनर्थान्सुजनेन संगम स्तस्मान्न कस्मै भ्रमणं विरोचते ॥ १६ ॥ अटाध्यमानोऽपि विदेशसंगतिं लभेत विद्वान्विदुषाऽभिसंगतिम् ॥ बुधो बुधानां खलु मित्रमीरितं स्वलेन मैत्री न चिराय तिष्ठति ।। १७ ।। समीपवासोऽयमुदीरितो गुरो र्विदेशगो यद्धदयेन धारयेत् ।। समीपगोऽप्येष न संस्थितोऽन्तिके न भक्तिहीनो यदि धारयेद्धदि ॥ १८ ॥ परिपुष्णाति मतिं शनैः शनैः । परिपुष्टमतिर्विवेकवा ञ्शनकैर्हयगुणं विमुञ्चति ॥ १९ ॥ [ सर्गः १४] किंच सत्तीर्थसेवा मनसो विशोधिनी देशस्यापूर्वस्य दर्शनं मनसः कुतूहलं सुजनेन सङ्गोऽनर्थान्नाशयति । तस्मादेवंविधं भ्रमणं कस्मै विशेषेण न रोचते । उपजातिवृत्तम् ॥ १६ ॥ [ सत्तीर्थेति । एवं च बहुगुणत्वात्सर्वस्मा अपि तीर्थयात्रार्थे भ्रमणं रोचत एवोति भावः ] | १६ ।। यदपि कुत्र च मित्रसंगतिरित्युक्तं तत्राप्याह । विदेशे सम्यग्गतिमटमानः कुर्वा णोऽपि विद्वान्विदुषाऽभिसंगतिं लभेत । बुधानां बुध एव खलु मित्रं कथितम् । यत खलेन मैत्री चिराय न तिष्ठति । वंशस्थं वृत्तम् ॥ १७ ॥ यत्तु गुरोः समीपे स्थेयमित्याद्युक्तं तत्राऽऽह । गुरोः समीपे वासोऽयं कथितो विदेशागो यदि हृदयेन गुरुं धारयेत् । समीपगोऽप्येष सभीपे न स्थितो यदि भक्ति हीनो हृदि तं न धारयेत् ॥ १८ ॥ सुजनसमागमोऽपि सुजनस्यैव फलतीत्याह । सुजनः सुजनेन संगतः शनैः शनै स्तत्सङ्गेन बुद्धिं वर्धयति । परिपुष्टमतिर्विवेकवान्सन्हेयं गुणं दुःखादि रजआदि वा विमुञ्चति । वियोगिनीं वृत्तम् ॥ १९ ॥ [ हेयस्त्याज्यो यो गुणो रजभादिस्तभि त्यर्थः । विमुञ्चति लोभादित्यागेन जहावत्यर्थः ] ॥ १९ ॥