पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ श्रीमच्छंकरदिग्विजयः । सर्वत्र न कापि जलं समस्ति पश्चात्पुरस्तादथ वा विदिक्षु ॥ मागे हि विद्येत न मुव्यवस्थः सुखेन पुण्यं क नु लभ्यतेऽधुना ॥ ९ ॥ जन्मान्तररार्जितमघं फलदानहेतो व्यध्यात्मना जनिमुपैति न नो विवादः । साधारणादिह च वा परदेशके वा ॥ कर्म ह्यभुक्तमनुवर्तत एव जन्तुम् ॥ १० ॥ इह स्थितं वा परतः स्थितं वा कालो न मुञ्चेत्समयागतश्चेत् ॥ तद्देशागत्याऽमृत देवदत्त इत्यादिकं मोहकृतं जनानाम् ॥ ११ ॥ मन्वादयो मुनिवराः खलु धर्मशात्रे धर्मादि संकुचितमाहुर्रातिप्रवृद्धम् । देशाद्यवेक्ष्य न तु तत्सराणिं गतानां शौचाद्यतिक्रमकृतं प्रभवेदघं नः ॥ १२ ॥ संभाव्यत इत्यादि यदुक्तं तत्राप्याह । सर्वत्रेति । न विद्यते सुव्यवस्था यस्य स यद्यप्येवं तथाऽप्यधुना सुखेन पुण्यं कापि न लभ्यतेऽतस्तदर्थं दुःखमपि सोढव्य मित्यर्थः । उपजातिवृत्तम् ॥ ९॥ [सर्वत्र कापि जलं सम्यङ्नैवास्तीत्यर्थः ] ॥९ ॥ यदपि ज्वरातिसारादीत्युक्तं तत्राप्याह । जन्मान्तरार्जितं पापं फलदानार्थं रोगा त्मना जन्मेपैतीत्यत्रास्माकं विवादो नास्ति तथाऽपीह वा परदेशके वा साधारणाज निमुपैति । हि यस्माद्भुक्तं कर्म जन्तुमनुवर्तत एव । वसन्ततिलका वृत्तम् ॥ १० ॥ कालो मृत्युः स्वसमय आगतश्चेदिह स्थितं परदेशे स्थितं वा नैव मुञ्चेत् । यत्तु तद्देशगमनेन देवदत्तोऽमृत मृतवानित्यादिकं जनानां वचस्तत्वविवेककृतमित्याह । तद्देशगत्येति । उपजातिवृत्तम् ॥ ११ ॥ [ समयेति । समये प्रारब्धपरिसमाप्ति क्षण आगत: समयागत इत्यर्थः ] ॥ ११ ॥ यत्तु स्नानमित्याद्युक्तं तत्राऽऽह । मनुपराशरादयो मुनिवराः किल धर्मशास्त्रे देशा द्यवेक्ष्यातिप्रवृद्धं धर्मादि संकुचितमाहुः । तथाच स्मृतिः । १ क. 'दत्तो [ सर्गः १४ ] मृनवा'।