पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ श्रीमच्छंकरदिग्विजयः । आज्ञा गुरोरनुचरैर्न हि लङ्घनीये त्युक्त्वा तयोर्निगमशेखरयोरुदारम् । निर्माय वार्तिकयुगं निजदेशिकाय निःसीमनिस्तुलनधीरुपदां चकार ॥ ६९ ॥ सनन्दना नाम गुरारनुज्ञया भाष्यस्य टीकां व्यधितेरित: पराम् ।। यत्पूर्वभागः किल पञ्चपादिका तच्छेषगा वृत्तिरिति प्रथीयसी ॥ ७० ॥ व्यासर्षिसूत्रनिचयस्य विवेचनाय टीकाभिधं विजयांडण्डिममात्मकीर्ति: ॥ निर्माय पद्मचरणो निरवद्ययुक्ति दृढध प्रबन्धमकरोद्ररुदक्षिणां स ।। ७१ ।। आलोचयन्नथ तदा नु गतिं ग्रहाणा मृचे मुरेश्वरसमाह्वमुपह्वरे सः ।। पञ्चैव वत्स चरणाः प्रथिता इह स्यु स्तत्रापि सूत्रयुगलद्वयमेव भूम्रा ।। ७२ ।। [ सर्गः १३ ] एतदेव विवृणोति । गुरोराज्ञाऽनुचरर्न हि लङ्घनीयेत्युक्त्वा वेदान्तयोस्तैत्तिरीय बृहदारण्यसंज्ञयोस्तयोभप्ययोरुदारं वार्तिकद्वयं निर्माय सीमारहिता निरुपमा धीर्यस्य स सुरेश्वरो निजदेशिकायोपदां चकारोपायनभूतं कृतवान् । वसन्ततिलकावृत्तम् ।।६९॥ सनन्दनो नाम गुरोरनुज्ञया प्रेरितः परां भाष्यस्य टीकां व्यधात् । यस्याः पूर्व भागः पञ्चपादिकेति प्रसिद्धः । तच्छेषेभागा वृत्तिरिति प्रथीयसी पख्याता ।। ७० ।। व्यासाख्यार्षिसूत्रकदम्बस्य विवेचनायाऽऽत्मकीर्तेर्विजयडिण्डिमं यतो निरवद्ययु क्तिभिर्यथितं टीकासंज्ञ प्रबन्धं निर्माय स पझपादो गुरुदक्षिणामकरोत् । वसन्तति लका वृत्तम् ॥ ७१ ।। अथानन्तरं सूर्यादिग्रहाणां गतिमालोचयन्सुरेश्वरसमाख्यमेकान्ते स श्रीशंकरो बभाषे । हे वत्सेह लोकं पचैव चरणाः पथिताः स्युरिह टीकायामिति वा । तत्रापि बाहुल्येनसूत्रचतुष्टयमेव प्रथितं स्यात् ।। ७२ ॥ १ क. "क्तिस्यूतं प्र'। ख. 'क्तिह्ययं प्र'। २ फ. 'पगा ।