पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १३ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । सत्यं यदात्थ विनयिन्मम याजुषी या शाखा तदन्तगतभाष्यनिबन्धइष्टः । तद्वात्तिकं मम कृते भवता प्रणेयं सचेष्टितं परहितैकफलं प्रसिद्धम् ॥ ६५ ॥ तद्वत्वदाया स्वलु काण्वशास्वा ममापि तत्रास्ति तदन्तभाष्यम् । तद्वात्तिकं चापि विधेयमिष्टं परोपकाराय सतां प्रवृत्तिः ॥ ६६ ॥ तत्रोभयत्र कुरु वार्तिकमार्तिहारि कीर्ति च याहि जितकार्तिकचन्द्रिकाभाम् ॥ मा शङ्किः पूर्वमिव दुःशठवाक्यरोधी मद्वाक्यमेव शरणं व्रज मा विचारीः ॥ ६७ ॥ श्रीविश्वरूपो विदुषां वरिष्ठः ।। चकार भाष्यद्वयवार्तिके द्वे ह्याज्ञा गुरुणां ह्यविचारणीया ॥ ६८ ॥ ४८१ तदाह । हे विनयिंस्त्वं यदुक्तवानसि तत्सर्वं सत्यमतो मम या याजुषी तैत्तिरेयी शाखा तस्या अन्तगत यो भाष्यलक्षणो ममेष्टो निबन्धस्तस्य वार्तिकं मदर्थं भवता प्रणेयम् । यतः सतां चेष्टितं परहितैकफलं प्रसिद्धम् ॥ ६५ ॥ तद्वत्वदीया खलु या काण्वशाखा तत्रापि मम तदन्तभाष्यमस्ति तस्य वार्तिकम पीटं विवेयम् । यतः सतां प्रवृत्तिः परोपकारायेत्यर्थः ।। ६६ ।। आवश्यकताबोधनाय पुनराह । तत्रोभयत्र तापत्रयनिबर्हणणं वार्तिकं कुरु । जिता कार्तिकचन्द्रिकाया आभा यया तथाभूतां कीर्ति च प्राप्नुहि । नन पूर्ववदधुनाऽपि विनेयवाक्यै रोधस्यावश्यंभावित्वात्किमर्थ तत्करणे मया दक्षिा स्वीकार्येति शङ्का त्वया न कर्तव्येत्याह । मा शङ्कीति । कुत इति चेत्तत्राऽऽह । मद्वाक्यमेव शरणमतस्त त्करणार्थं गच्छ विचारं मा कुरु । वसन्ततिलका वृत्तम् ।। ६७ ।। इत्थं भगवत्पदेन श्राशंकरेणोक्तो विदुषां वरिष्ठः स श्रीसुरेश्वरो भाष्यद्वयस्य वार्तिके द्वे चकार । हि यस्माद्ररूणामाज्ञाऽविचारणीयैव । उपजातिवृत्तम् ॥ ६८ ॥ [ भगवदिति । भगवत्यैश्वर्यवती पदे चरणौ यस्थ स तथा तेनेत्यर्थः । यद्वा भगवन्तो विष्ण्वाद्यवतारत्वेनैश्वर्यवन्तः पझापादाचार्यादयः शिष्याः पद्येोर्थस्येत्यादि ] ॥६८॥