पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । तिष्ठन्गुरौ तिष्ठति संप्रयाते गच्छन्बुवाणे विनयेन शृण्वन् । अनुच्यमानोऽपि हितं विधत्ते यचाहितं तच तनोति नास्य ।। ७४ ।। तस्मिन्कदाचन विनेयवरे स्वशाटी प्रक्षालनाय गतवत्यपवर्तनीगाः ।। थाख्यानकर्मणि तदागममीक्षमाणो भक्तपु वत्सलतया विललम्ब एषः ॥ ७५ ।। शान्तिपाठमथ कर्तुमसंख्ये पृद्यतेषु स विनेयवरेषु । स्थीयतां गिरिरपि क्षणमात्रा देष्यतीति समुदीरयति स्म । ७६ ॥ तां निशम्य निगमान्तगुरूतिं मन्दधीरनधिकार्यपि शास्त्रे ॥ किं प्रतीक्ष्यत इति स्म ह भित्तिः पद्मपादमुनिना समदर्शि ॥ ७७ ॥ ४५९ किंच गुरौ तिष्ठति सति तिष्ठंस्तस्मिन्संप्रयाते गच्छन्बुवाणे विनयेन शृण्वन्सन्न कथ्यमानोऽपि हितं गुरोरहितं तच विस्तारयति । उपजाति विधत्ते यचास्य न वृत्तम् ॥ ७४ ॥ एवंभूते तस्मिञ्शिष्यवरे कदाचित्स्वशाटीप्रक्षालनागापवर्तनीगा नदीजलानि प्रात गतवति सति तस्थाऽऽगमनर्भीक्षमाणो भक्तषु वत्सलतया व्याख्यानाख्ये कर्मणि विललम्बे। गः स्वर्गे च बलीवर्दै रश्मौ च कुलिशे पुमान् । स्री सँौरभेयीदृग्बाणदिग्वाग्भूम्यप्सु भून्नि च इति मेदिनी । वसन्ततिलका वृत्तम् ।। ७५ ।। अथानन्तरमसंख्यातेषु शिष्यवरेषु शान्तिपाठं कर्तुमुद्यतं षु सत्सु स देशिकेन्द्र स्थीयतां गिरिरपि ।। ७६ ।। क्षणमात्रादेष्यतीति गिराति स्म । स्वागता वृत्तम् तां वेदान्तरूपां गुरुक्ति निशम्ये भेदबुद्धित्वाद्भित्तिः कुञ्जयतुल्यो जड: शास्त्रेऽन विकार्यपि किमर्थ प्रतीक्ष्यत इति स्म ह पद्मपादमुनिना समदर्शि' । इति सूचनार्थ १ क. 'म्य मन्दबु। २ क. ख. गा . 'शि'। ॥ ७७ ॥ अ' ।