पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० मध्ये वसन्यस्य करोति भूषां पिनाकपाणिर्गिरिजासहायः ।। हारस्य यष्टेस्तरलो यथा वै रात्रेरिवेन्दुर्गगनाधिरूढः ॥ ४२ ॥ तत्र द्विजः कश्चन शास्त्रवेदी प्रभाकराख्यः प्रथितानुभावः ॥ प्रवृतिशाखैकरतः सुबुद्धि रास्ते क्रतून्मीलितकीर्तिवृन्दः ॥ ४३ ॥ गावो हिरण्यं धरणी समग्रा सद्धान्धवा ज्ञातिजनाश्च तस्य । सन्त्येव किं तैर्न हि तोष एभिः पुत्रो यदस्याजनि मुग्धचेष्टः ॥ ४४ ॥ न वक्ति किंचिन्न शृणोति किंचि द्धयायन्निवाऽऽस्ते किल मन्दचेष्टः ॥ रुपेषु मारो महसा महस्वा न्मुखेन चन्द्रः क्षमया महीसमः ॥ ४५ ॥ [ सर्गः १२ ] किंच गिरिजासहायः पिनाकपाणिर्मध्ये वसन्यस्य भूषां करोति । तत्र दृष्टान्तद्व यमाह । यथा हारस्य यष्टेर्लतिकायास्तरलो मध्यमणिभूषां करराति । ‘तरलश्चञ्चले षिड़े भास्करेऽपि त्रिलिङ्गकः । हारमध्यमणौ पुंसि' इति मेदिनी । यथा वा गगनाविरूढश्चन्द्रो रात्रेभूषां करोति तद्वत् ॥ ४२ ॥ तत्र तस्मिन्ग्रामे शास्त्रज्ञः प्रभाकरसंज्ञः कश्चनाऽऽस्ते स्म । तं विशिनष्टि । प्रवृ तीति । क्रतुभिरुन्मीलितं कीर्तिवृन्दं येन सः ॥ ४३ ॥ तैः सद्भिः किं न किमपि । हि यस्मादेभिः सर्वेस्तोषो नास्ति । तोषाभावे हेतुर्य द्यस्मादस्य पुत्रो मुग्वचेष्टोऽजनि ! इन्द्रवज्रा वृत्तम् ॥ ४४ ॥ [ मुग्धेति । मुग्धव चेष्टा यस्य स तथा ] ।। ४४ ॥ तदीयां तां चेष्टामेव दर्शयति । नेति । तदीयं रूपं वर्णयति । रूपेषु मारः कामः । महसा तेजसा महस्वान्सूर्यः । उपजातिवृत्तम् ॥ ४५ ॥ [ महीसमः पृथ्वीतुल्य इत्यर्थः ] ॥ ४५ ॥ १ ख. ग. घ. 'यं स्वरू';