[ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ इति तां वचनैः प्रपूज्य भैक्षौ दनमात्रेण स तुष्टिमान्कृतार्थः ॥ बहुसाधकसंस्तुतः कियन्तं समयं तत्र निनाय शान्तचेताः ॥ ३८ ॥ श्रयति स्म ततोऽग्रहारकं श्री वलिसंज्ञ स कदाचन स्वशिष्यैः ।। अनुगेहहुतामिहोत्रदुग्ध प्रसरत्पावनगन्धलोभनीपम् ॥ ३९ ॥ यतोऽपमृत्युर्बहिरेव याति भ्रान्त्वा प्रदेशं शनकैरलब्ध्वा । दृष्टा द्विजातीन्निजकर्मनिष्ठा न्दूरान्निषिद्धं त्यजतोऽप्रमत्तान् ॥ ४० ॥ यस्मिन्सहस्रद्वितयं जनाना मयाहितानां श्रुतिपाठकानाम् ।। वसत्यवश्यं श्रुतिचोदितामु क्रियासु दक्षं प्रथितानुभावम् ॥ ४१ ॥ साधकेन्द्रोऽनुध्यायति । अथानन्तरं श्रीचक्रमत्रयोरपि चिन्तितैक्यमनुध्यायति । ततस्तदनन्तरं चक्रस्य तवैक्यं मत्रस्य चैक्यमित्येवं क्रमादनुध्यायति ॥ ३७ ॥ उपसंहरति । इतीति । कियन्तं समयं कालं निनाय नीतवान् । ‘विषमे ससजा गुरू समे यश्च वसन्तमालिका सा'।। ३८ ।। चेवत्सभरा ४४९ ततः कदाचित्स्वशिष्यैः सह स श्रीशंकरः श्रीवलीति संज्ञा यस्य तं द्विजग्रामकं श्रयाति स्म । तं विशिनष्टि । प्रतिगृहं हुतादग्निहोत्रदुग्धात्पसरता पावनेन गन्धेन लोभनीयं माथ्येम् ।। ३९ ।। पुनस्तमेव वर्णयति । शनकैभ्रान्त्वा निजकर्मनिष्ठान्दूरान्निषिद्धं त्यजतः प्रमादशून्या न्द्विजातीन्नरान्दृष्टा पदेशमलब्ध्वाऽपमृत्युर्यस्माद्वहिरेव याति । उपजातिवृत्तम् ॥ ४० ॥ [ प्रदेशं ग्रामनिवसज्जनकृतदुराचारजन्यं स्वावस्थानस्थलमित्यर्थः ] ॥ ४० ॥ यस्मिन्नाहिताभीनां वेदपाठकानां जनानां द्विसहस्रमवश्यं वेदविहितासु क्रियासु दक्ष मथितप्रभावं वसति ॥ ४१ ॥
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४४७
दिखावट