पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ श्रीमच्छंकरदिग्विजयः । इतीरयत्येवं यतौ द्विजाते सुतः सुखं सुप्त इवोदतिष्ठत् ॥ समीपगैः सर्वजनीनमस्य चारित्र्यमालोक्य विसिष्मिये च ॥ २४ ॥ रम्योपशल्यं कृतमालसाल रसालहिँतालतमालशालैः ॥ सिद्धिस्थलं साधकसंपदां त न्मूकाम्बिकायाः सदनं जगाहे ॥ २५ ॥ उचावचानन्दजबाष्पमुच रुद्वीर्णरोमाञ्चमुदारभक्तिः ॥ अम्बामिहापारकृपावलम्बां संभावयन्नस्तुत निस्तुलं सः ॥ २६ ॥ पारेपरार्ध पदपद्मभा:मु षष्टयुत्तरं ते त्रिशतं तु भासः ॥ अविश्य वह्नयर्कमुधामरीची नालोकवन्त्यादधते जगन्ति ॥ २७ ॥ इत्येवं यतौ कथयत्येव ब्राह्मणस्य सुतः सुखं सुप्त इवोत्थितः । सर्वस्मै जनाय हितं सर्वजनीनमस्य श्रीशंकरस्य चारित्र्यमालोक्य समीपगैर्विशेषेण विस्मयश्च प्राप्तः ।

  • सर्वजनाछञ्खश्चेति खः' ।। २४ ।।

[ सर्गः १२] कृतमालैः सालादिवृक्षविशेषे रम्यमुपशल्यं ग्रामान्तं यस्य । ‘ग्रामान्त उपशाल्यं स्यात्' इत्यमरः । साधकसंपदां सिद्धिस्थलं तन्मूकाम्बिकायाः सदनं जगाहे । उपजा तिवृत्तम् ॥ २५ ॥ उच्चो ब्रह्मलोकानन्दोऽवचो नीचो यस्मात्तथाभूतानन्दजन्यबाष्पमुचैरुद्रीर्णरोमाश्वं च यथा स्यात्तथोदारभक्तिः स श्रीशंकर इह लोकेऽपारकृपावलम्बामम्बां पूजयन्नि स्तुलं निरुपमै यथा स्यात्तथा स्तुतवान् । इन्द्रवज्रा वृत्तम् ॥ २६ ॥ [ अपारेति । अपारकृपामनम्तानुकम्पामेवावलम्बत इति तथा तामित्यर्थः ] ॥ २६ ॥ स्तुतिमेव दर्शयति । परार्वस्य परार्धसंख्यायाः पारे तामतिक्रान्ता यास्तव चरणकम लभासो मयूखास्तासु षष्टयुत्तरं त्रिशतं तु भासो वह्निसूर्यचन्द्रानाविश्य जगन्यालोक १ ग. ‘स्य चरित्रमा' । १ स्व. ग. ध. भीचैर्यस्मा'।