पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १२ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ वृषाकपायीवरयोः सपयाँ वाचाऽतिमोचारसयेति तन्वन् । मुनिप्रवीरो मुदितात्मकामो मूकाम्बिकायाः सदनं प्रतस्थे ॥ २० ॥ अड़े निधाय व्यसृमात्मजातं महाकुलौ हन्त मुहुः प्ररुद्य ॥ तदेकपुत्रौ द्विजदंपती स दृष्टा दयाधीनतया शुशोच ॥ २१ ॥ अपारमञ्चत्यथ शोकमस्मि न्नभूयतोचैरशरीरवाचा ॥ जायेत संरक्षितुमक्षमस्य जनस्य दुःखाय परं दयेति ॥ २२ ॥ आकण्र्य वाणीमशरीरिणीं ता मसाविति व्याहरति स्म विज्ञः ॥ सत्यं तवैकस्य तु शोभते सा ॥ २३ ॥ ४४३ उपसंहरति । इत्येवमतिक्रान्तकदलीफलरसया वाचा लक्ष्मीपार्वत्यधीशायोः पूजां वितन्वन्मुदितश्चासावात्मकामश्च मुदिता आत्मकामा येनेति वा । स मुनिप्रवीरो मूकाम्बिकायाः सदनं पतस्थे । उपजातिवृत्तम् ।। २० ।। तत्र जातं वृत्तान्तमावेदयाति । विगतमाणमात्मजमङ्के निधाय । हन्तेत्यतिकटे । मुहुः परुद्य महाव्याकुलौ यतः स एवैकः पुत्रो ययोस्तौ दंपती दृष्टा स श्रीशंकरो द्यावीनतया शुशोच । उपजातिवृत्तम् ॥ २१ ॥ [ तत्र मार्गे संपत्रं कंचिदृत्तान्तं कथयति । अङ्क इति ] ॥ २१ ॥ एवमस्मिञ्श्रीशाकरेऽपारं शोकं गच्छति सत्युचैरशरीरवाचाऽभूयताशारीरिणी वाग भूत् । तामुदाहरति । संरक्षितुमक्षमस्य नरस्य दया परं केवलं दुःखायैव जायेतेत्ये वमभूयतेत्यर्थः ।। २२ ।। तामशारीरिणीं वाचमाकण्यसौ विज्ञः श्रीशंकर इति व्याहराति स्म । तदाह इदं सत्यं जगत्रयीरक्षणकुशलस्यैवं वक्तस्तैववैकस्य तु सा दया शोभते । तथाच दयया समर्थन त्वयैतयोः शोकोऽपाकरणीय इति भावः ॥ २३ ॥