पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ११ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । न्मन्थेनोत्क्षोभिदुग्धोदधिलहरिमिथःस्फालनाचारघोरः ॥ कल्पान्तोन्निद्ररुद्रोचतरडमरुकध्वानबद्धाभ्यसूयो घोपोऽयं कर्णघोरः क्षपयतु नृहरे रंहसां संहतिं नः ।। ७२ ॥ क्षुन्दानो मडूक्षु कल्पावधिसमयसमुज्जूम्भदम्भोदगुम्फ स्फूर्जद्दम्भोलिसंघस्फुरदुरुरांटितास्वर्वगर्वप्ररोहान् । ४३३ र्गम्भीरस्तेऽट्टहासो हर हर नृहरे रंहसांऽहांसि हन्यात् ॥ ७३ ॥ एवं विशिष्टनुतिभिर्तृहरौ प्रशान्ते स्वं भावमेत्य मुनिरेष बभूव शान्तः ॥ स्वप्रानुभूतमिव शान्तमनाः स्मरंस्त मात्मानमात्मगुरवे प्रणतिं चकार ॥ ७४ ॥ किंच मध्ये व्यानद्धस्य सम्यग्बद्धस्य वातंधयो वायुपो वासुकिसंज्ञः सर्पस्तलक्ष णस्य गुणस्य वलनस्याऽऽवेष्टनस्याऽऽवानं स्थापनं यत्र स चासैौ मन्थनाद्रिर्मन्दरा चलस्तेन यी मन्थो मन्थनं तेन क्षोभिणः क्षीरसमुद्रस्य लहरीणां यो मिथःस्फालना चारस्ताडनाचारस्तद्वद्धोरस्तस्माद्धोर इति वा । श्रुतश्च कल्पौन्त उन्निद्रस्य रुद्रस्योचै डेमरुकशब्देन बद्धाऽभ्यसूया येन तथाभूतो यं कर्णघोरो नृहरेघपो नोंऽइसां पापानां समुदायं क्षपयतु ॥ ७२ ॥ किंच कल्पान्तसमये समुज्नृम्भतामम्भोदानां गुम्फे समृहे स्फूर्जतामशनीनां संघस्य स्फुरद्यदुरुरटितं बृहद्रर्जन तस्यानल्पान्गर्वप्ररोहान्मङ्कक्षु क्षुन्दान आशु चूर्णीकु वाणः । पुनश्च क्रीडायै यो वराहेन्द्रस्तस्य नासायाः सरभसं सवेगं विसरन्यो घोरो घूधलक्षणः शब्दस्तस्य श्ररिव श्रीर्यस्य स गम्भीरस्ते नृहरेरदृहासो हे हर हरेति संभ्रमे वीप्सा । वेगेन नः पापानि हन्यातू ॥ ७३ ॥ एवं विशिष्टस्तुतिभिर्तृहरौ पशान्ते सत्येष मुनिः पद्मपादः भावमेत्य शान्तो स्वं बभूव । ततश्च शान्तमनाः स्वप्रानुभूतमिव तं स्वात्मानं स्मरन्सन्स्वगुरवं नात प्रकर्षेण चकार । वसन्ततिलका वृत्तम् ॥ ७४ ॥ १ ग. 'ल्पान्तोन्नि'। २ ख. घ. 'व तमात्मा'