श्रीमच्छंकरदिग्विजयः । [ सर्गः ११] हतो वराको हि रुषं नियच्छ विश्वस्य भूमन्नभयं प्रयच्छ ॥ एते हि देवाः शममर्थयन्ते निरीक्ष्य भीताः प्रतिखेदयन्ते ॥ ६९ ।। द्रष्टुं न शक्या हि तवानुकम्पा हीनैर्जनैर्निह्नतकोटिशंपाम् ।। मूर्ति तदात्मनुपसंहरेमां पाहि त्रिलोकीं समतीतसीमाम् ॥ ७० ॥ कल्पान्तोज्नृम्भमाणप्रमथपरिवृढप्रौढलालाटवह्नि ज्वालालीढत्रिलोकजनितचटचटाध्वानधिकारधुर्य: ॥ मध्येब्रह्माण्डभाण्डोदरकुहरमनैकान्त्यदुस्थामवस्थां स्त्यानस्त्यानो ममायं दलयतु दुरितं श्रीवृसिंहाट्टहासः ॥ ७१ ॥ त्वमेवेति । उपजातिवृत्तम् || ६८ || [ अस्य जन्यजगतः । अनवद्य इति च्छेदः । निदर्दोष इत्यर्थः ] ॥ ६८ ॥ एवं स्तुत्वा रोषशान्ति पुनः प्रार्थयते । हि यस्मद्वराको हतोऽत: कोपं नियच्छ । हे भूमंस्तेन च विश्धस्याभयं प्रयच्छ । हि यस्मादेते देवाः शमं प्रार्थयन्ते । निरीक्ष्य भीताः प्रतिखेदं प्रापुवान्ति ॥ ६९ ॥ [ एत इत्यङ्गल्या नभःसंस्थितानां प्रागुक्तब्रह्मा दिदेवानां निर्देशो ध्वन्यते ]॥ ६९ ॥ किंच हि यस्मात्तवानुकम्पा हीनैर्जनैद्रष्टुं न शक्या तत्तस्माद्ध आंत्मन्निमां तिरस्कृ तकोटिविद्युतं मृतिमुपसंहर । तेन च भयात्पमतिक्रान्तसीमां त्रिलोकीं पाहि ॥७०॥ अथेदानीं श्रीवृसिंहाट्टहासं वर्णयंस्तस्मादुरितशमं पार्थयति । कल्पान्त उनृम्भ माणस्य प्रमथपरिवृढस्य रुद्रस्य प्रौढो यो लालाटवह्निस्तस्य ज्वालाभिरालीढायां त्रिलोक्यां जनितस्य चटचवटाशब्दस्य विकारे धुर्यः । पुनश्च मध्येब्रह्माण्डोदरकुहरं ब्रह्माण्डभाण्डात्मकपात्रजठरच्छिद्रमध्ये योऽनैकान्त्यनाव्यभिचारेण दुस्था दुर्घटैकरू पेण स्थितिर्यस्या अनेकरूपां जन्ममरणादिलक्षणामवस्थां प्रति स्त्यानस्त्यानोऽनल घनो वह्निमूर्तिः । *स्त्यानं स्निग्धेऽपि च घने त्वनलालस्ययोरपि' इति मेदिनी । एवंभूतोऽयं श्रीनृसिंहाट्टहासो मम दुरितं दलयतु । स्रग्धरा वृत्तम् || ७१ ॥
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४३०
दिखावट