पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१४ श्रीमच्छंकरदिग्विजयः । वाणी काणभुजी च नैव गणिता लीना कचित्कापिली शैवं चाशिवभावमेति भजते गहपदं चाऽऽर्हतम् ॥ दौर्ग दुर्गतिमश्रुते भुवि जनः पुष्णाति को वैष्णवं निष्णातेषु यतीशसूक्तिषु कथाकेलीकृतासूक्तिषु ॥ १८ ॥ तथागतकथा गता तदनुयायि नैयायिकं वचोऽजनि न चोदितो वदति जातु तौतातितः ॥ विदग्धांति न दग्धधीवैिदितचापलं कापिलं विनिर्दयविनिर्दलद्विमतसंकरे शंकरे ॥ ११४८ ॥ इति श्रीमाधवीये तत्कलाज्ञत्वप्रपञ्चनम् ॥ संक्षेपशशंकरजये सर्गेऽयं दशमोऽभवत् ॥ १० ॥ [ सर्गः १० ] शांकरसृक्तिषु निष्णातेष्वाचार्यविनेयेषु सत्सु कथाकेलीकृतासु नर्मकथात्वं प्राप्ता सृक्तिषु मध्ये काणादी तु वाणी नैव गणिता । कापिली सा तु कविलीना क गते त्यपि न ज्ञाता । शैवं पाशुपतानां तु वचोऽशिवत्वमाप्रेोति । आर्हतं च तद्रहपदं भजते । दौर्ग शाक्तानां च तदुर्गतिम श्रुते । वैष्णवं तत्पालयितुं समर्थः कोऽपि जनो नास्तीत्यर्थः ।। १८ || [कथेति । कथाक्रीडात्वमानीता आसमन्तात्सक्तयो यैस्ताट ३षु सत्सु ] || ११८ ॥ विनिर्दयं यथा स्यात्तथा विनिर्दूलान्वशीर्णतां मामुवन्विरुद्धमतानां संकरो येन तथाभूते शंकरे सति तथागतानां सुगतानां कथा गता विलयं प्राप्तां तथा नैयायिकव चस्तदनुयायि तदनुगाम्यजनितौतातितः कौमारिलश्चोदितः प्रेरितोऽपि नं च वदति पुनश्च विदितचापलं कापिलं वचो दग्धा पुष्टा स्थिता वा धीर्यस्य स न विदग्धि नाभिनन्दति नैव पुष्णातीति वाँ तदपि तथैव विलयं गतम् । पृथ्नी वृत्तम् ॥११४८॥ [ इति श्रीति । तदिति । तस्य भाप्यकृत: कलाज्ञत्वस्य पपश्चनं यथा स्यात्त थेत्यर्थः ] ॥ १० ॥ शावतंसरामकुमारसूनुवनपतिमृरिकृते श्रीशंकराचार्यवि जयडिण्डिमे दशमः सर्गः ।। १० ।। १ क. "प्ता नै'। २ क, "नि तदपि तथैव गतम् । तौ'। ३ ग. न व'। ४ घ. वा । पृ'