पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनंपतिसूरिकृतडिण्डिमाख्यटीकांसंवलितः । अध्यापयन्तमसदर्थनिरासपूर्व किंत्वन्यतीर्थयशसं श्रुतिभाष्यजातम् । आक्षिप्य पाशुपतवैष्णवीरशैव माहेश्वराश्च विजिता हि सुरेश्वराचैः ॥ ११५ ॥ केचिद्विस्मृज्य मतमात्म्यंममुष्य शिष्य भावं गता विगतमत्सरमानदोषाः ॥ अन्ये तु मन्युवशमेस्य जघन्यचित्ता निन्युः क्षणं निधनमस्य निरीक्षमाणाः ॥ १६ ॥ वेदान्तीकृतनीचशूद्रववसो वेदः स्वयंकल्पना पापिष्ठाः स्वमपि त्रयीपथमपि प्रायो दहन्तः स्वलाः ॥ साक्षाङ्कह्मणि शंकरे विदधति स्पधनिबंद्धां मतिं कृष्णे पौण्ड़कवत्तथा न चरमां किं ते लभन्ते गतिम् ॥ १० ॥ ४१३ श्रीशंकरोऽतिचित्राणि पदानि यस्मिन्नसद्वहाणां दुराग्रहाणां निग्रहोऽर्थः पयोजनं वा यस्य तथाभूतं कृतं शारीरकादि सुधीन्द्रान्समग्राः सुगुणाः शान्तिदान्त्यादयो येषु तामयाञ्श्रोष्ठानग्राहयत् । वसन्तांतलका वृत्तम् ।। १४ ।। तिरस्कृतान्यशास्त्रयशासं श्रुतिभाप्यसमूहमसदथैनिरासपूर्वमध्यापयन्तं भाष्यका रमाक्षिप्य स्थिताः पाशुपतादयः सुरेश्वरपद्मपादादिभिराक्षिप्य विशेषेण जिताः ॥१५॥ [ अन्येति । अन्ये एवाद्वैतत्वद्वैतव्यापकत्वाभ्यां लोकविलक्षणे एव तीर्थयशासी शास्त्र कीर्तिकुले यस्य तम् । श्रीभाष्यकारमाक्षिप्य तं पति पूर्वपक्ष कृत्वा ये स्थिताः । न तु विजयमाप्ताः किंतु ते । सुरेश्वराचैर्विजिता इत्यन्वयः ] ॥ १५ ॥ तत्र केवित्स्वीयं मतं परित्यज्य विगतमत्सरादिदोषाः सन्तोऽमुष्य श्रीशंकरस्य शिष्यत्वं प्राप्ता अन्ये तु कोपवशं गत्वा यतो मलिनचित्ता अस्य मरणं निरीक्ष माणाः कालं निन्युः ॥ १६ ॥ तथाचैवंविधा वेदान्तीकृतानि नीचानां शूद्राणां वचांसि यैः पुनश्च पापिष्ठाः स्वकल्पना एव वेदः कृतः स्वं वेदान्तप्रतिपाद्यमात्मानमपि वेदत्रयीपथमपि प्रायो दहन्तो ये खलाः साक्षाद्रह्मणि शंकरे स्पर्धया निबद्धां बुद्धिं श्रीकृष्णे मिथ्यावासुदे ववद्विदधाति ते तद्वत्किमन्त्यां गतिं विनाशं मोक्षं वा न लभन्तेऽपि तु पापुवन्त्येव । शार्दूलविक्रीडितं वृत्तम् ॥ १७ ॥ [ वेदान्तीकृतेति । अत एव वेदस्तु स्वयंकृताः पुरुषकृताः कल्पना एवेति वदन्तः ] ॥ १७ ॥ १ ख, ग. 'त्ततो न ।