पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८ श्रीमच्छछंकरदिग्विजयः । मनोऽनुवर्तेत दिवानिशं गुरौ गुरुर्हि साक्षाच्छिव एव तत्त्ववित् ।। निजानुवृत्त्या परितोषितो गुरु र्विनेयवक्त्रं कृपया हि वीक्षते ॥ ९७ ॥ सा कल्पवलुीव निजेष्ठमर्थ फलत्यवश्यं किमकार्यमस्याः ॥ आज्ञा गुरोस्तत्परिपालनीया सामोदमानीय विधातुमिष्टा ॥ ९८ ॥ गुरुपदिष्टा निजदेवता चे त्कुप्येत्तदा पालयिता गुरुः स्यात् ।। रुष्टे गुरौ पालयिता न कश्चि द्ररौ न तस्माज्जनयेत कोपम् ॥ ९९ ॥ [ सर्गः १० ] अथाना ‘यस्य देवे परा भक्तिर्यथा देने तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः । गुरुप्रसादात्परमात्मलाभ ।

  • तद्विद्धि प्रणिपातेन परिप्रश्रेन सेवया'

इत्यादिशास्त्रमनुसृत्य गुरुभक्तस्तत्त्वज्ञानान्तरङ्गपाधनत्वं बोधयितुमारभते । अ र्निशं मनो गुरावनुवर्तेत । अत्यावश्यकताबोधनाय लिङ्प्रयोगः । हि यस्मात्तत्त्वां दुरुः साक्षाच्छिव एव । तदुक्तम् । ‘गुरुर्बह्या गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुः पिता गुरुर्मता गुरुरेव परः शिवः’ इति । ननु शिवस्वरूपगुरोरनुवृत्तिः किमर्थं कर्तव्येति चेत्तत्राऽऽह । हि यस् त्स्वस्य गुरोरनुवृत्त्या परितोषितो गुरुः शिष्यमुखं कृपया वीक्षते । वंशस्थं वृत्तम् ॥९ किं तत इति तत्राऽऽह । सा गुरोराज्ञा सम्यक्परिपालनीया । यतः कल्पवत् स्वेष्टमर्थमवश्यं फलति किमसाध्यमस्या अत: साऽऽज्ञा मोदमानीय हर्षे प्राप्य वि तुमेिष्टा । उपजातिवृत्तम् ॥ ९८ ॥ किचेष्टदेवादपि गुरुर्गरीयानित्याशयेनाऽऽह । गुरूपदिष्टा निजदेवता कुप्येचे गुरुः परिपालयता स्यात् । रुटे गुरौ तु परिपालथिता कश्चिदपि नास्ति तस्मा कोपं कदाऽपि नोत्पादयेत् । तदुक्तं ब्रह्मवैवर्ते । 'शिवे रुष्ट गुरुस्राता गुरौ रुष्टे न कश्चन' इति ॥ ९९ ॥