पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ मर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । यथा प्रपायां बहवो मिलन्ते क्षणे द्वितीये बत भिन्नमागः । प्रयान्ति तद्वद्रहुनामभाजो गृहे भवन्त्यत्र न कश्चिदन्ते ॥ ९३ ॥ मुस्वाय यद्यत्क्रियते दिवानिशं मुस्वं न किंचिद्धहुदुःखमेव तत् । विना न हेतुं सुखजन्म दृश्यते हेतुश्च हेत्वन्तरसंनिधौ भवेन् ॥ ९४ ॥ परिपक्कमतेः सकृच्छतं जनयेदात्मधियं श्रुतेर्वचः ॥ परिमन्दमते: शनै: शनै र्गुरुपादाब्जांनषेवणादिना ॥ ९५ ॥ करणेनापि गुरोर्निषेवणात् ॥ अपगच्छति मानसं मलं क्षमते तत्वमुदीरितं तैत: ॥ ९६ ।। ४०७ अथ तत्त्वज्ञानाव्यभिचारिपाधनाय वैराग्यायाऽऽह । यथा जलपानशालायां हवे। मिलन्ति क्षणे द्वितीये भिन्नमार्गाः प्रयान्ति । तथा गृहे बहुनामभाजो भवन्त्यन्ते मरणानन्तरमत्र गृहे कोऽपि न भवति । उपेन्द्रवज्रा वृत्तम् ॥ ९३ ।। किच दिवानिशं सुखाय यद्यत्क्रियते ततस्ततः किंचिदपि सुख न भवति प्रत्युत तस्माद्व हुदुःखमेव यतः पुण्यरूपं हेतुं विना सुखजन्म न दृश्यते हेतुश्च जन्मान्तरी यहेतोः संनिधौ भवेत् । ‘पुण्यः पुण्येन कर्मणा' इति श्रुतेः । वंशस्थं वृत्तम् ॥ ९४ ॥ तस्मादेवंभूतसंसाराद्विमुक्तिमिच्छता श्रुतिवचमाऽऽत्मसाक्षात्कार एव संपादनीयः ! “प च परिपकमतेः सकृच्छूवणेन मन्दमतेस्तु गुरुपादाब्जनिषेवणादिना शनै: शनैरि त्याशयेनाऽऽह । परीति । वियोगिनी वृत्तम् ॥ ९५ ॥ [ आदिनाऽहं ब्रह्मास्मीति निर्गुणाइंग्रहोपासनम् ] ॥ ९५ ।। शान: शनैरित्यादि विवृणोति । प्रणवाभ्यासस्योक्तस्य त्रिकालस्नानादिरूपस्य कमेण करणन गुरोर्विशेषेण शुश्रूषणाच मानसं मलमपगच्छति ततश्च कथितं तत्त्वं क्षमते वारणाय योग्यं भवति । ९६ ॥ ५ घ. मिलन्ति । २ स्त्र. घ. मनः ।