पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । लोप्यो हि लोप्यव्यतिरिक्तलोपको दृष्टो घटादिः खलु तादृशी तनुः । दृश्यत्वहेतोळ्र्यतिरेकसाधने त्वत्तः शरीरे कथमात्मतागतिः ॥ ७८ ॥ नापीन्द्रियाणि खलु तानि च साधनानि दात्रादिवत्कथममीषु तवाऽऽत्मभावः ॥ चक्षुर्मदीयमिति भेदगतेरमीषां स्वप्रादिभावविरहाच घटादिसाम्यम् ॥ ७९ ॥ पद्यात्मतपा समुदायगा स्या देकव्ययेनापि भवेन्न तद्धीः ॥ प्रत्येकमात्मत्वमुदीर्यते चे नश्येच्छरीरं बहुनायकत्वात् ॥ ८० ॥ किंच लोप्यो घटादिः स्वव्यतिरिक्तो दण्डादिलॉपको यस्य तथाभूतो दृष्टः शारीरं व सादृशं स्वातिरिक्तलोपकमेव प्रसिद्धम् । तथाच लोप्यं यथा स्वातिरिक्तलोपक तथा दृश्यमपि स्वातिरिक्तद्रष्टकं ततश्च विमतं दृश्यं स्वातिरिक्तद्रष्टकं दृश्यत्वाद्धट वद्यद्यत्कर्म तत्तत्स्वातिरिक्तकर्तृकं यथा लोप्यो घटादिः स्वातिरिक्तलोपक इत्याशये नाऽऽह । दृश्यत्वहेतोरिति । एतस्माच्छरीराद्यतिरेकसाधने स्वातिरिक्तद्रधृकत्वसा धने तु दृश्यत्वहेतोः शरीर आत्मत्वावगतिः केनापि प्रकारेण न घटत इत्यर्थः ॥७८॥ ४०१ एवं देहादात्मानं विविच्येन्द्रियेभ्यस्तं विवेचयति । नापीन्द्रियाण्यात्मा तेषां साध नत्वाद्दात्रादिवत्तस्मादमीष्विन्द्रियेषु तवाऽऽत्मभावः केनापि प्रकारेण नोपपद्यते । तेषा मनात्मत्वेऽन्यदपि हेतुद्वयमाह । चक्षुरादेर्घटादिवदनात्मत्वमेव चक्षुर्मदीयमित्यादिभेदा वगतेः । स्वप्रमुषुप्तिभावे तत्सत्त्वेऽमीषां विरहाच । पश्यामि शृणोमीत्यादिप्रत्ययस्तु पृवेवद्रष्टव्यः । वसन्ततिलका वृत्तम् ॥ ७९ ॥ इन्द्रियसमुदाय आत्मोत प्रत्येकमिति विकल्प्याऽऽयं मत्याह । यथेषामिन्द्रि याणां समुदायगाऽऽत्मता स्यात्तकस्येन्द्रियस्य नाशे समुदायनाशादात्मताबुद्धिर्न स्यात् । द्वितीयमत्थाप्य निराचष्टे । प्रत्येकमात्मत्वमुच्यते चेत्तर्हि बहुनायकत्वेन विरुद्धक्रियत्वावश्यकत्वाच्छरीरमेव नश्येत् । इन्द्रवत्रा वृत्तम् ॥ ८० ॥ १ क. 'रुद्धादिक्रि'।